SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०।४-६] दशमोऽध्यायः ३२१ वत् सर्वक्षायकभावनिवृत्तिः प्राप्नोति ? सत्यम् ; क्षायिकभावप्रक्षयो भवत्येव यदि विशेषो न निगद्यते। विशेषस्त्वाचार्येण सूचित एव वर्तते । कोऽसौ विशेष इति प्रश्ने अपवादसूत्रमुच्यते अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥ ४ ॥ ___ सम्यक्त्वञ्च ज्ञानदर्शनश्च सिद्धत्वञ्च सम्यक्त्वज्ञानदर्शनसिद्धत्वानि,केवलानि निःकेवलानि ५ एतानि सम्यक्त्वज्ञानदर्शनसिद्धत्वानि तेभ्यः केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः। एभ्यश्चतुर्यः क्षायिकभावेभ्यः अन्यत्र एतानि चत्वारि वर्जयित्वा अन्येषां भावानां प्रक्षयान्मोक्षो भवति। तर्हि अनन्तवीर्यानन्तसुखादीनामपि प्रक्षयो भविष्यति, चतुर्योऽवशेषत्वात् । सत्यम् ; ज्ञानदर्शनयोरन्तर्भावोऽनन्तवीर्यस्य तेन सत्य (तत्) क्षयो नास्ति, अनन्तवीर्य विना अनन्तज्ञानप्रवृत्तिर्न भवति यतः। सुखं तु ज्ञानदर्शनयोः पर्यायः, तत एव सुखस्यापि क्षयो न १० भवति । ननु सिद्धानां निराकारत्वादभावो भविष्यति ? सत्यम् ; चरमशरीराकारास्ते वर्तन्ते, तेन तेषामभावोऽपि नास्ति "सायारमणायारा लक्खणमेयं तु सिद्धाणं ।"[ ] इति वचनात् । ननु शरीरानुकारी यदि जीवः प्रतिज्ञातो भवद्भिस्तर्हि शरीराभावात् स्वभावेन लोकाकाशप्रदेशप्रमाणो जीव इति भवतां मते सति त्रैलोक्यप्रमाणप्रदेशप्रसरणं भविष्यति । सत्यम् ; नोकर्मसम्बन्धे कारणे सति संहरणं विसर्पणश्च भवति । नोकर्म- १५ सम्बन्धलक्षणकारणभावात् , पुनः संहरणं विसर्पणञ्च न भवति । एवं चेद् यथा कारणाभावात् संहरणं विसर्पणश्च न भवति तथा गमनकारणकर्माभावे सति ऊर्ध्वगमनमपि न भविष्यति, अधस्तिय॑म्गमनयोरभाववत् । एवञ्च सति यत्रैव जीवो मुक्तस्तत्रैव तिष्ठति, तन्न ____ तदनन्तरमूर्ध्व गच्छत्यालोकान्तात् ॥ ५ ॥ तस्य सर्वकर्मविप्रमोक्षस्य अनन्तरं पश्चात्तदनन्तरमूर्ध्वमुपरिष्टात् गच्छति ब्रजति । कोऽसौ ? मुक्तो जीव इति शेषः । कियत्पर्यन्तमूर्ध्वं गच्छति ? आलोकान्तात्-लोकपर्यन्तमभियातीत्यर्थः। आलोकान्तादूवं गच्छतीत्यत्र ऊर्ध्वगमनस्य हेतु!कः, हेतुं विना कथं पक्षसिद्धिरित्युपन्यासे सूत्र मिदमुच्यते पूर्वप्रयोगादसङ्गत्वाइन्धच्छेदात्तथागतिपरिणामाच ॥६॥ पूर्वश्चासौ प्रयोगः पूर्वप्रयोगस्तस्मात् पूर्वप्रयोगात् । पूर्व किल जीवेन , संसारस्थितेन बहून् 'वारान् यन्मुक्तिप्राप्त्यर्थं प्रणिधानं कृतम् ऊर्ध्वगमनध्यानाभ्यासो विहितस्तस्य प्रणिधानस्याभावेऽपि तदावेशपूर्वकमासंस्कारक्षयादूर्ध्वगमनं भवत्येव इत्येको हेतुरुक्तः । तथोर्ध्वगमनस्य १-मिदमाहुः आ०, ज० | २-धारान् मुक्ति-आ०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy