________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२० तत्त्वार्थवृत्ती
[१०१३ नोकषायषटकं प्रध्वंस्यते । षष्ठे भागे पुंवेदाभावो रयते । सप्तमे भागे सज्वलनक्रोधविध्वंसः कल्प्यते । अष्टमे भागे सञ्ज्वलनमानविनाशः प्रणीयते । नवमे भागे सज्वलनमायाक्षयः क्रियते । लोभसज्वलनं दशमगुणस्थाने प्रान्ते विनाशं गच्छति । निद्राप्रचले 'द्वादशस्य गुणस्थानस्योपान्त्यसमये विनश्यतः। पञ्चज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्टयपश्चान्तरायाणां ५ तदन्त्यसमये क्षयो भवति । सयोगिकेवलिनः कस्याश्चिदपि प्रकृतेः क्षयो नास्ति । चतुर्दशगुणस्थानस्य द्विचरमसमये द्वासप्ततिप्रकृतिनां क्षयो भवति । कास्ताः ? अन्यतरवेदनीयम्, देवगतिः, औदारिकवैक्रियकाहारकतैजसकामणशरीरपञ्चकम् , तद्वन्धनपञ्चकम् , तत्संघातपञ्चकम् , संस्थानषटकम् , औदारिकवैक्रियकाहारकशरीरोपाङ्गत्रयम् , संहननषटकम् ,
प्रशस्ताप्रशस्तवर्णपञ्चकम् , सुरभिदुरभिगन्धद्वयम् , प्रशस्ताप्रशस्तरसपञ्चकम् , स्पर्शाष्टकम् , १० देवगतिप्रायोग्यानुपूर्व्यम् , अगुरुलघुत्वम् , उपघातः, परघातः, उच्छ्वासः, प्रशस्तान
शस्तविहायोगतिद्वयम् , पर्याप्तिः, प्रत्येकशरीरम् , स्थिरत्वमस्थिरत्वम् , शुभत्वमशुभत्वम् , दुर्भगत्वम् , सुस्वरत्वम, दुःस्वरत्वम्, अनादेयत्वम् , अयशस्कीतिः, निर्माणम् , नीचैर्गोत्रम् इति । अयोगिकेलिचरमसमये त्रयोदश प्रकृतयः क्षयमुपयान्ति । कास्ताः ?
अन्यतरवेदनीयम् , मनुष्यायुः, . मनुष्यगतिः, पञ्चेन्द्रियजातिः, मनुष्यगतिप्रायोग्या१५ नुपूर्वी, असत्वम् , बादरत्वम्, पर्याप्तकत्वम्, शुभगत्वम्, आदेयत्वम् , यशःकीर्तिः , तीर्थकरत्वम् उच्चर्गोत्रश्चेति ।।
अर्थतासां द्रव्यकर्मप्रकृतीनां क्षयान्मोक्षो भवति आहोस्वित् भावकर्मप्रकृतीनामपि क्षयान्मोक्षो भवतीति प्रश्ने सूत्रमिदमाहुः
औपशमिकादिभव्यत्वानाञ्च ॥३॥ २० औपशमिको भाव आदिउँपां मिश्रौदयिकभावानां ते औपशमिकादयो भावास्ते च
भव्यत्वञ्च औपशमिकादिभव्यत्वानि तेषामौपशमिकादिभव्यत्वानाम् । एतेषां चतुर्णा भावकर्मणां विप्रमोक्षो मोक्षो भवति । चकारः परस्परसमुच्चये वर्तते, तेनायमर्थः-न केवलं पौगलिककृर नकर्मविप्रमोक्षो मोक्षः किन्तु औपशमिकादिभव्यत्वानां भावकर्मणां विप्रमोक्षो
मोक्षो भवति । भव्यत्वं हि पारिणामिको भावस्तेन भव्यत्वग्रहणात् पारिणामिकेषु भावेषु २५ भव्यत्वस्यैव प्रक्षयो भवति नान्येषां जीवत्वसत्त्ववस्तुत्वामूर्तत्वादीनां पारिणा मिकानां क्षयो
वर्तते, तत्क्षये शून्यत्वादिप्रसङ्गात् । ननु द्रव्यकर्मनाशे तन्निमित्तानामौपशमिकादीनां भावानां स्वयमेवाभावः सिद्धः किमनेन सूत्रेणेति चेत् ? सत्यम् ; नायमेकान्तो निमित्ताभावेऽपि कार्यभावदर्शनात् । दण्डाद्यभावेऽपि घटादिदर्शनात् । अथवा सामर्थ्याल्लब्धस्यापि भावकमक्षयस्य सूत्रं स्पष्टार्थम् । ३० अथाह कश्चित्-भावानामुपरमो मोक्ष आक्षिप्तो भवद्भिस्तथा औपशमिकादिभावप्रक्षय
१ द्वादशगुण- आ०, द०. ज०। २ प्रश्चयो मोक्षो भ- ता० । ३ जीवत्ववस्तुश्रा०, द०, ज०।
For Private And Personal Use Only