SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१२] दशमोऽध्यायः नष्टं विधाय नपुंसकवेदविनाशं कृत्वा स्त्रीवेदं समूलकाषं कपित्वा हास्यरत्यरतिशोकभयजुगुप्सालक्षणं नोकपायषटकं पुंवेदश्च क्षपयित्वा क्रोधसज्वलनं मानसज्वलने मानसज्वलनं मायासज्वलने मायासज्वलनं लोभसज्वलने लोभसज्वलनं क्रमेण बादरकिट्टिविभागेन विनाशमानयति । बादरकिट्टिरिति कोऽर्थः ? उपायद्वारेण फलं भुक्त्वा निजोर्यमाणमुद्धतशेषमुपहतशक्तिकं कर्म किट्टिरित्युच्यते आज्यकिट्टिवत् । सा किट्टिाधा ५ भवति-बादरकिटिसूक्ष्मकिट्टिभेदादिति किट्टिशब्दार्थो वेदितव्यः । तदनन्तरं लोभसञ्ज्वलनं कृशीकृत्य सूक्ष्मसाम्परायक्षपको भूत्वा निःशेष मोहनीयं निर्मूल्य क्षीणकषायगुण स्थानं स्फेटितमोहनीयभारः सन्नधिरोहति । तस्य गुणस्थानस्यापान्त्यसमयेऽन्त्यसमयात् प्रथमसमये द्विचरमसमये निद्राप्रचले २ प्रकृती क्षपयित्वा अन्त्यसमये पञ्च ज्ञानावरणानि चत्वारि दर्शनाररणानि पञ्च अन्तरायान् क्षपयति । तदनन्तरं केवलज्ञानकेवलदर्शनस्वभावं केवलपर्याय- १० मचिन्त्यविभूतिमाहात्म्यं प्राप्नोति । अथ केवलज्ञानोत्पत्ति' कारणं कथयित्वेदानी मोक्षकारणं मोक्षस्वरूपश्चाचक्षते भगवन्तःबन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥ २॥ बन्धस्य हेतवो मिथ्यादर्शनाविरतिप्रमादकषाययोगास्तेषामभावो नूनकर्मणामप्रवेशो बन्धहेत्वभावः पूर्वोपार्जितकर्मणामेकदेशक्षयो निर्जरा। बन्धहेत्वभावश्च निर्जरा च बन्ध- १५ हेत्वभावनिर्जरे ताभ्यां बन्धहेत्वभावनिर्जराभ्याम् । द्वाभ्यां कारणाभ्यां कृत्वा कृत्स्नानां विश्वेषां कर्मणाम् , विशिष्टम्-अन्य जनासाधारणं प्रकृष्टम्-एकदेशकर्मक्ष यलक्षणाया निर्जराया उत्कृष्टमा त्यन्तिकं मोक्षणं मोक्षः कृत्स्नकर्मविप्रमोक्षोमोक्ष उच्यते । पूर्वपदेन मोक्षस्य हेतुरुक्तः। द्वितीयपदेन मोक्षस्वरूपं प्रतिपादितमिति वेदितव्यम् । नन्धत्र सप्तसु तत्त्वेषु षट्त त्वस्वरूपं प्रोक्तं निजरास्वरूपं न प्रोक्तम् । सत्यम् ;यदि सर्वकर्मक्षयो मोक्षः प्रोक्तस्ततः सामथ्योदेव ज्ञायते यदेकदेशेन २० कर्मक्षयो निर्जरा तेन पृथक सूत्रं निर्जरालक्षणप्रतिपादकं न विहितमिति वेदितव्यम् । कर्मक्षयो दिप्रकारो भवति प्रयत्नाप्रयत्नसाध्यविकल्पात् । तत्र अप्रयत्नसाध्यश्चरमोत्तमशरीरस्य नारकतियग्देवायुषां भवति। प्रयत्नसाध्यस्तु कर्मक्षयः कथ्यते-चतुर्थपञ्चमपष्ठसप्तमेषु गुणस्थानेषु मध्येऽन्यतमगुणस्थानेऽनन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्वप्रकृतित्रयस्य क्षयो भवति। अनिवृत्तिबादरसाम्परायसंज्ञकनवमगुणस्थानस्यान्तर्मुहूर्तस्य नव भागाः क्रियन्ते । तत्र प्रथमभागे निद्रा- २५ प्रचलाप्रचला-स्त्यानगृद्धिनरकगतितिर्यग्गत्येकेन्द्रियजातिद्वीन्द्रिय जातित्रीन्द्रियजातिचतुरिन्द्रियजातिनरकगतिपायोग्यानुपूर्वीतिर्यग्गतिप्रायोग्याऽनुपूर्व्यातपोद्योतस्थावरसूक्ष्म साधारणाऽभिधानिकानां पोडशानां कमप्रकृतीनां प्रक्षयो भवति । द्वितीयभागे मध्यमकषायाष्टकं नष्टं विधीयते । तृतीयभागे नपुंसकवेदच्छेदः क्रियते । चतुर्थे भागे स्त्रीवेदविनाशः सृज्यते । पञ्चमे भागे १-स्थाने आ°, द०, ज० । २-नोत्पत्ति क- आ०, द०, ज०। ३ -क्षयनामनिजअ०, द०, ज०। ४ -तत्त्वरूपम् आ०, द०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy