________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमोऽध्यायः
अथेदानी मोक्षस्वरूपं प्रतिपादयितुकामो भगवानुमास्वामी पर्यालोचयति-मोक्षस्तावत् केवलज्ञानप्राप्तिपूर्वको भवति । तस्य केवलज्ञानस्योत्पत्तिकारणं किमिति ? इदमेवेति निर्धार्य सूत्रमिदमाह
मोहक्षयाज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥१॥ मोहस्य क्षयो विध्वंसः मोहक्षयस्तस्मान्मोहक्षयात् । आवरणशब्दः प्रत्येकं प्रयुज्यते । तेन ज्ञानावरणं दर्शनावरणच ज्ञानदर्शनावरणे ते च अन्तरायश्च ज्ञानदर्शनावरणान्तरायास्तेषां क्षयः ज्ञानदर्शनावरणान्तरायक्षयस्तस्मात् ज्ञानदर्शनावरणान्तरायक्षयात् । चकारादायुस्त्रिकनामत्रयोदशक्षयाच्च केवलं केवलज्ञानमुःपद्यते । त्रिषष्टिप्रकृतिक्षयात् केवलज्ञानं भवती
त्यर्थः । अष्टाविंशतिप्रकृतयो मोहस्य । पञ्च ज्ञानावरणस्य । नव दर्शनावरणम्य । पञ्च अन्तराय१० स्य । मनुष्यायुर्वर्जमायुस्त्रयः साधारणातपपञ्चेन्द्रियरहितचतु तिनरकगतिनरकगत्यानुपूर्वी
स्थावरसूक्ष्मतिर्यग्गतितिर्यग्गत्यानुपूर्योद्योतलक्षणास्त्रयोदशनामकर्मणः प्रकृतयश्चेति त्रिषष्टिः । ननु मोहज्ञानदर्शनावरणान्तरायक्षयात् केवलमिति सिद्धे सूत्रगुरुकरणं किमर्थम् ? वाक्यभेदः कर्मणां क्षयानुक्रमप्रतिपादनार्थः । कोऽसावनुक्रमः १ मोहक्षयः पूर्वमेव भवति । तदनन्तरं क्षीण
कषायगुणस्थाने ज्ञानदर्शनावरणान्तरायक्षयो भवति तत्क्षये केवलमुत्पद्यते । मोहक्षयानुक्रम १५ उच्यते-भव्यः प्राणी सम्यग्दृष्टिर्जीवः परिणामविशुद्धया वर्द्धमानः असंयतसम्यग्दृष्टिदेशसंयत
प्रमत्तसंयताऽप्रमत्तसंयतगुणस्थानेष्वन्यतमगुणस्थाने अनन्तानुबन्धिकषायचतुष्टयदर्शनमोहत्रितयक्षयो भवति । ततः क्षायिकसम्यग्दृष्टिभूत्वा अप्रमत्तगुणस्थाने अथाप्रवृत्तकरणमङ्गीकृत्य अपूर्वकरणाभिमुखो भवति । अथाऽप्रवृत्तकरणं किम् ? अपूर्व चारित्रम् अथवा
अथानन्तरम् अप्रवृत्तकरणं कथ्यते । तदपि किम् ? परिणामविशेषा इत्यर्थः । कीदृशास्ते अथा२० प्रवृत्तकरणशब्दवाच्या विशिष्टपरिणामा इति चेत् ? उच्यते--- ४ एकस्मिन्नकस्मिन् समये एकैकजी
वस्यासंख्यलोकमा"नावच्छिन्नाः परिणामा भवन्ति । तत्राप्रमत्तादिगुणस्थाने पूर्वपूर्वसमये प्रवृत्ता यादृशाः परिणामास्तादृशा एव, अथानन्तरमुत्तरसमयेषु आ समन्तात्प्रवृत्ता विशिष्टचारित्ररूपाः परिणामाः अथाप्रवृत्तकरणशब्दवाच्या भवन्ति । अपूर्वकरणप्रयोगेणापूर्वकरण
क्षपकगुणस्थाननामा भूत्वा अभिनवशुभाभिसन्धिना भवन्ति । धर्म्यशुक्लध्यानाभिप्रायेण २५ कृशीकृतपापप्रकृतिस्थित्यनुभागः सन् संवड़ितपुण्यकर्मानुभवः सन् अनिवृत्तिकारणं लब्ध्वा, ___ अनिवृत्तिबादरसाम्परायक्षपकगुणस्थानमधिरोहति। तत्राऽप्रत्याख्यानकषायप्रत्याख्यानकषायाष्टकं
१ किमिदमिदमेवेति आ०, द०, ज० । २ -दशकक्ष- ता०। ३ अथाऽप्रमचक- आ०, द०, ज· । ४ एकस्मिन् समये आ०, ६०, ज० ।५ -मानाछिन्नाः ता० । ६-करणलब्ध्या ता० ।
For Private And Personal Use Only