________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६ तत्त्वार्थवृत्ती
[ ९/४७ स्नातकानां केवलज्ञानमेव भवति तेन तेषां श्रुतं न भवति । महाव्रतलक्षणपञ्चमूलगुणविभावरीभोजनविवर्जनानां मध्येऽन्यतमं बलात् परोपरोधात्प्रतिसेवमानः पुलाको विराधको भवति । रात्रिभोजनवर्जनस्य विराधकः कथमिति चेत् ? उच्यते-श्रावकादीनामुपकारोऽनेन भविष्यतीति छात्रादिकं रात्रौ भोजयतीति विराधकः स्यात् । वकुशो द्विप्रकारःउपकरणवकुशशरीरवकुशभेदात् । तत्र नानाविधोपकरणसंस्कारप्रतीकाराकाङ्क्षी उपकरणबकुश उच्यते । वपुरभ्यङ्गमर्दनक्षालनविलेपनादिसंस्कारभागी शरीरयकुशः प्रतिपाद्यते । एतयोरियं प्रतिसेवना । प्रतिसेवनाकुशीलकषायकुशीलयोर्मध्ये यः प्रतिसेवनाकुशीलः स मूलगुणान् न विराधयति उत्तरगुणमन्यतमं विराधयति अस्यैषा प्रतिसेवना। यः कपायकुशीलो
निर्ग्रन्थः 'स्नातकश्च तेषां विराधना काचिन्न वर्तते तेन ते अप्रतिसेवना । सर्वेषां तीर्थकर१० परमदेवानां तीर्थेषु पञ्चप्रकारा अपि निर्ग्रन्था भवन्ति । लिङ्ग द्विप्रकार-द्रव्यभावभेदात् ।
तत्र पञ्चप्रकारा अपि निर्ग्रन्था भावलिङ्गिनो भवन्ति द्रव्यलिङ्गन्तु भाज्यम्-व्याख्यानेयमित्यर्थः । तत्किम् ? केचिदसमर्था महर्षयः शीतकालादौ कम्बलशब्दवाच्यं कौशेयादिकं गृहन्ति, न तत् प्रक्षालयन्ति न सीव्यन्ति न प्रयत्नादिकं कुर्वन्ति, अपरकाले परिहरन्ति ।
केचिच्छरीरे उत्पन्नदोषा लज्जितत्वात् तथा कुर्वन्तीति व्याख्यानमाराधनाभगवतीप्रोक्ताभि१५ प्रायेणापवादरूपं ज्ञातव्यम् । “उत्सर्गापवादयोरपवादो विधिबलवान्" [ ]
इति उत्सर्गेण तावद् यथोक्तमाचेलक्यञ्च प्रोत्तमस्ति । आर्यासमर्थदोषवच्छरीराद, पंक्षया अपवादव्याख्याने न दोषः, अमुमेवाधारं गृहीत्वा जैनाभासाः केचित्सचेलत्वं मुनीनां स्थापयन्ति तन्मिथ्या, "साक्षान्मोक्षकारणं निग्रन्थलिङ्गम्" [ ] इति बचनात् ।
अपवादव्याख्यानं तूपकरणकुशोलापेक्षया कर्तव्यम् । पीतपद्मशुक्ललक्षणास्तिस्रो लेश्याः २० पुलाकस्य भवन्ति । कृष्णनीलकापोतपीतपद्मशुक्ललक्षणाः षडपि लेश्याः बकुशप्रतिसेवनाकुशी
लयोर्भवन्ति । ननु कृष्णनीलकापोतलेश्यात्रयं वकुशप्रतिसेवनाकुशीलयोः कथं भवति ? सत्यम् ; तयोरुपकरणासक्तिसम्भवमार्तध्यानं कादाचित्कं सम्भवति, तत्सम्भवादादिलेश्यात्रयं सम्भवत्येवेति । मतान्तरम्-परिग्रहसंस्काराकाङ्क्षायां स्वयमेवोत्तरगुणविराधनायामार्तसम्भ
वादााविनाभावि च लेश्याषट्कम् । पुलाकस्यात कारणाभावान्न पट लेश्याः। किन्तूत्तरास्तिस्त्र२५ एव । कापोततेजःपद्मशुक्ललेश्याचतुष्टयं कषायकुशीलस्य देयं दातव्यं दानीयमिति यावत् ।
कपायकुशीलस्य या कापोतलेश्या दीयते सापि पूर्वोक्तन्यायेन चेदितव्या तस्याः सज्वलनमात्रान्तरङ्गकषायसद्भावात् परिग्रहासक्तिमात्रसद्भावात् सूक्ष्मसाम्परायस्य । निर्ग्रन्थस्नातकयोश्च निःकेवला शुक्लव लेश्या वेदितव्या। अयोगिकेवलिनान्तु लेश्या नास्ति । पुलाकस्योत्कृष्टतया
उत्कृष्टस्थितिषु सहस्रारदेवेषु अष्टादशसागरोपमजीवितेषु उपपादो भवति । वकुशप्रतिसेवना३० कुशीलयोरारणाच्युतस्वर्ग योविंशतिसागरोपमस्थितिषु देवेषूपपादो भवति । कषायकु
शीलनिर्ग्रन्थयोः सर्वार्थसिद्धौ त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषूपपादो भवति । जघन्योपपादो
१ स्नातकाच ता० । २ -मचेलक्यञ्च प्रो- आ०, द०, ज० ।
For Private And Personal Use Only