________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९१४७] नवमोऽध्यायः
३१५ कदाचित् कथञ्चित् व्रतेष्वपि परिपूर्णत्वमलभमाना अविशुद्धपुलाकसदृशत्वात् पुलाका उच्यन्ते । मलिनतण्डुलसमानत्वात् पुलाकाः कथ्यन्ते
"भक्तसिक्थे च संक्षेपे सारधान्ये पुलाकवाक् ।।" [ ] इति वचनात् । निर्ग्रन्थत्वे स्थिता अविध्वस्तव्रताः शरीरोपकरणभूिषणयशःसुखविभूत्याकाक्षिणः अविविक्तपरिच्छदानुमोदनशबलयुक्ता ये ते वकुशा उच्यन्ते । अविविक्तशब्देन असंयतः परिच्छदशब्देन ५ परिवारःअनुमोदनमनुमतिः शबलशब्देन कवूरत्वं तयुक्ता वकुशा इत्यर्थः। शबलपर्यायवाचको वकुशशब्दो वेदितव्यः । कुशीला द्विप्रकाराः-प्रतिसेवनाकषायकुशीलभेदात् । तत्र प्रतिसेवनाकुशीला अविविक्तपरिग्रहाः सम्पूर्णमूलोत्तरगुणाः कदाचित्कथश्चिदुत्तरगुणानां विराधनं विदधतः प्रतिसेवनाकुशीला भवन्ति । सज्वलनापरकषायोदयरहिताः सज्वलनकषायमात्रवशवर्तिनः कषायकुशीलाः प्रतिपाद्यन्ते । यथा जले लकुटरेखा सद्यो मिलति १० तथा अप्रकटकर्मोदया मुहुर्तादुपरि समुत्पद्यमानकेवलज्ञानदर्शनद्वया निर्ग्रन्थाः कथ्यन्ते।
तीर्थकरकेवलीतर केवलीभेदाद् द्विप्रकारा अपि केवलिनः स्नातका उच्यन्ते । चारित्रपरिणामोत्कर्षापकर्षभेदेऽपि सति नगमसङ्ग्रहादिनयाधीनतया विश्वेऽपि पञ्चतये निम्रन्थाः कथ्यन्ते जात्याचाराध्ययनादिभेदेऽपि द्विजन्मवत् । अथ पुलाकादीनां विशेषपरिज्ञानार्थ सूत्रमिदमुच्यतेसंयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थान
विकल्पतः माध्याः ।। ४७॥ अन्तरविराधने सति पुनः सेवना प्रतिसेवना, दोपविधानमित्यर्थः। ततः संयमश्च श्रुतश्च प्रतिसेवना च तीर्थश्च लिङ्गञ्च लेश्याश्च उपपादश्च स्थानानि च संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थानानि तेषां विकल्पा भेदाः संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थान- २० विकल्पाः तेभ्यः ततः पुलाकादयः पञ्चतये महर्षयः संयमादिभिरष्टभिर्भेदैरन्योन्यभेदेन साध्या व्यवस्थापनीया व्याख्यातव्या इत्यर्थः । तथाहि-पुलाकवकुशप्रतिसेवनाकुशीलाः सामयिकच्छेदोपस्थापनानामसंयमद्वये वर्तन्ते । सामयिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्परायनामसंयमचतुष्टये कषायकुशीलाः भवन्ति । निर्ग्रन्थाः स्नातकाश्च यथाख्यातसंयमे सन्ति । पुलाकवकुशप्रतिसेवनाकुशीलेषु उत्कर्षेणाभिन्नाक्षरदशपूर्वाणि श्रुतं भवति । कोऽर्थः ? २५ अभिन्नाक्षराणि एकेनाप्यक्षरेण अन्यूनानि दशपूर्वाणि भवन्तीत्यर्थः। कषायकुशीला निम्रन्थाश्च चतुर्दशपूर्वाणि श्रुतं धरन्ति । जघन्यतया पुलाकः आचारवस्तुस्वरूपनिरूपकं श्रुतं धरति । वकुशकुशीलनिम्रन्थास्तु प्रवचनमातृकास्वरूपनिरूपकं श्रुतं निकृष्टत्वेन धरन्ति । प्रवचनमातृका इति कोऽर्थः ? पञ्चसमितयस्तिस्रो गुप्तयश्चेत्यष्टौ प्रवचनमातरः कश्यन्ते । समितिगुनिप्रतिपादकमागम जानन्तीत्यर्थः ।
१५
१ इत्युच्यन्ते आ०, द०, ज०। २ लगुड- ता० । ३ तीर्थंकर- आ०, द०, ज०। ४-पि जन्मवत् आ०,०, ज० ।
For Private And Personal Use Only