________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तो
[९/४६ ___ सम्यग्दृष्टिश्च श्रावकश्च विरतश्चाऽनन्तवियोजकश्च दर्शनमोहक्षपकञ्च उपशमकश्च उपशान्तमोहश्च क्षपकश्च क्षीणमाहश्च जिनश्च सम्यग्दृष्टिनावकविरताऽनन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः । एते दशविधपुरुषा अनुक्रमेणासंख्येयगुणनिर्जरा भवन्ति । तथाहि-एकेन्द्रियेषु विकलत्रये च प्रचुरतरकालं भ्रान्त्वा पञ्चेन्द्रियत्वे सति कालादिलब्धिसञ्जनितविशुद्धपरिणामक्रमेगापूर्वकरणपङ्क्तयो 'रुत्प्लवनमानोऽयं जीवः प्रचुरतरनिर्जरावान् भवति । स एव तु औपशामकसम्यक्त्वप्राप्तिकारणनैकटथे सति सम्यग्दृष्टिः सन्नसङ्ख्येयगुणनिर्जरां लभते । स एव तु प्रथमसम्यक्त्वचारित्रमोहकर्मभेदाप्रत्याख्यानक्षयोपशमहेतुपरिमाणप्राप्त्यवसरे प्रकृष्टविशुद्धिः श्रावकः सन् तस्मादसङ्ख्य गुणनिर्जरां प्राप्नोति । स एव तु प्रत्याख्यानावरणकषायक्षयोपशमहेतुभूतपरिणाम१० विशुद्धो विरतः सन् श्रावकादसङ्ख्येयगुणनिर्जरा विन्दति । स एव त्वनन्तानुबन्धिकषायचतु
ट्रयस्य यदा वियोजको वियोजनपरो विघटनपरो भवति तदा प्रकृष्टपरिणामविशुद्धिः सन् विरतादप्यसङ्ख्येयगुणनिर्जरामासादयति । स एव तु दर्शनमोहप्रकृतित्रयशुष्कतृणराशिं यदा निर्दग्धुमिच्छन् भवति तदा प्रकृष्टपरिणामविशुद्धिः सन् दर्शनमोहक्षपकनामा ना२ अनन्तवि
योजकादसङ्ख्येयगुणनिर्जरां प्रपद्यते । एवं स पुमान् क्षायिकसदृष्टिः सन् श्रेण्यारोहणमि१५ च्छन् चारित्रमोहोपशमे प्रवर्तमानः प्रकृष्टविशुद्धिः सन उपशमकनामा सन् क्षपकनामकादसह
ख्येयगुणनिर्जरामधिगच्छति । स एव तु समस्तचारित्रमोहोपशमकारणनैकटये सति सम्प्रानोपशान्तकषायापरनामकः दर्शनमोहक्षपकादसङ्ख्येयगुणनिर्जरां प्रतिपद्यते । स एव तु चारित्रमोहनपणे सम्मुखो भवन् प्रवर्द्धमानपरिणामविशुद्धिः सन् क्षपकनाम दधन् उपशान्तमोहादुपशान्तकषायापरनामकादसङ्ख्येयगुणनिर्जरामश्नुते । स पुमान् यस्मिन् काले समग्रचारि२० त्रमोहक्षपणपरिणामेषु सम्मुखः क्षीणकषायाभिधानं ग्रहमाणो भवति तदा क्षपकनामकादसख्येयगुणनिर्जरामासीदति । स एवैकत्ववितर्कावीचारनामशुक्लध्यानाग्निभस्मसात्कृतघातिकर्मसमूहः सन् जिननामधेयो भवन् क्षीणमोहादसङ्ख्येयगुणनिर्जरामादत्ते ।
अथात्राह कश्चित्-सम्यक्तवसामीप्ये चेदसङ्ख्येयगुणनिर्जरा "भवति परस्परमेषां निर्जरापेक्षया समत्वं न भवति तर्हि एते विरतादयः किं विरताविरतवनिर्ग्रन्थत्वसंज्ञां न २५ लभन्ते ? नेवम् विरतादयो निर्जरागुणभेदेऽपि निम्रन्थसंज्ञा प्राप्नुवन्त्येव । कुतः ? नंगमादिनयव्यापृतेः । तन्निर्ग्रन्थनामस्थापनाद्यर्थं सूत्रमिदमाहुः
पुलाक वकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥४६॥
पुलाकाश्च वकुशाश्च कुशीलाश्च निर्ग्रन्थाश्च स्नातकाश्च पुलाकवकुशकुशीलनिग्रन्थस्नातकाः । एते पञ्च प्रकारा निर्ग्रन्थाः इत्युच्यन्ते । तत्रोत्तरगुणभावबाधारहिताः कचित्
----
-
--
-
१ रु' इत्यधिक वर्तते । २ पुमान् । ३ सन्मुखः ता., द०, ज०। ४ ग्रहयमाणः ता० । ग्रहणमाणः आ०, द०। ग्रह्यमाणः जः। ५ भवन्ति आ०, द०, ज०। ६-बकुश- आ० । ७ कथ्यन्ते आ०,द०, ज०।
For Private And Personal Use Only