________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९।४५] नवमोऽध्यायः
३१३ युर्भवति अन्तर्मुहूर्तस्थितिवेद्यनामगोत्रश्च भवति तदा विश्व वाग्योगं मनोयोगं बादरकाययोगञ्च परिहत्य सूक्ष्मकाययोगे स्थित्या सूक्ष्मक्रियाप्रतिपातिध्यानं समाश्रयति । यदा त्वन्तेर्मुहूर्तशेषायु:स्थितिः ततोऽधिकस्थितिवेद्यनामगोत्रकर्मत्रयो भवति तदात्मोपयोगातिशयव्यापारविशेषो यथाख्यातचारित्रसहायो महासंवरसहितः शीव्रतरकर्मपरिपाचनपरः सर्वकर्मरजः समुद्धायनसामर्थ्य स्वभावः दण्डकपाटप्रतरलोकपूरणानि निजात्मप्रदेशप्रसरणलक्षणानि चतुभिः समयः ५ करोति तथैव चतुर्भिः समयः समुपहरति ततः समानविहितस्थित्यायुर्वेद्यनामगोत्रकर्मचतुष्कः पूर्वशरीरप्रमाणो भूत्वा सूक्ष्मकाययोगावलम्बनेन सूक्ष्मक्रियाप्रतिपातिध्यानं ध्यायति । तदनन्तरं व्युपरतक्रियानिवर्तिनामधेयं समुच्छिन्नक्रियानिवृत्त्यपरनामकं ध्यानमारभते । समुच्छिन्नः प्राणापातप्रचारः सर्वकायवाङ्मनोयोगसर्वप्रदेशपरिस्पन्द क्रियाव्यापारश्च यस्मिन् तत् समुच्छिन्नक्रियानिवर्ति ध्यानमुच्यते । तस्मिन् समुच्छिन्नक्रियानिवर्तिनि ध्याने सर्वास्रवबन्धनिरोधं १० करोति, सर्वशेषकर्मचतुष्टयविध्वंसनं विदधाति, परिपूर्णयथाख्यातचारित्रज्ञानदर्शनश्च भवति, सर्वसंसारदुःखसंश्लेपविच्छेदनं जनयति । स भगवान अयोगिकेवली तस्मिन् काले ध्यानाग्निनिदग्धकर्मम लकलङ्कबन्धनः सन् दूरीकृतकिट्टधातुपाषाणस जातजातरूपसदृशः परिप्राप्तात्मस्वरूपः परमनिर्वाणं गच्छति । अत्र अन्त्यशुक्लध्यानये यद्यपि चिन्तानिरोधो नास्ति तथापि ध्यानङ्करोतीत्युपचर्यते। कस्मात् ? ध्यानकृत्यस्य योगापहारस्याऽयातिघातस्योपचारनिमित्तस्य ५५ सद्भावात् । यस्मात् साक्षात्कृतसमस्तवस्तुस्वरूपेऽहं ति भगवति न किञ्चिद् ध्येयं स्मृतिविषयं वर्तते । तत्र यद् ध्यानं तत् असमकर्मणां समकरणनिमित्तं या चेष्टा कर्मसमत्वे वर्तते तत्क्षययोग्यसमता लौकिकी या मनीषा तदेव निर्वाणं सुखम् । तत्सुखं मोहक्षयात् , दर्शनं दर्शनावरणक्षयात्, ज्ञानं ज्ञानावरगक्षयात् , अनन्तवीर्यमन्तरायक्षयात् , जन्ममरणक्षय आयुःक्षयात् , अमूतत्वं नामक्षयात् , नीचोच्चकुलक्षयो गोत्रक्षयात्, इन्द्रियजानतशुभक्षयो वेद्यक्षयात् । एकस्मि- २० निष्टे वस्तुनि स्थिरा मतिर्ध्यानं कथ्यते । आरौिद्रधर्म्यापेक्षया या तु चञ्चला मतिर्भवत्यशुभा शुभा वा तञ्चित्तं कथ्यते भावना वा कथ्यते अनेकनययुक्ता अनुप्रेक्षा वा कथ्यते चिन्तनं वा कथ्यते श्रुतज्ञानपदालोचनं वा कथ्यते ख्यापनं वा कथ्यते । इत्येवं विप्रकार तपो नूनकर्मादीनाञ्च ( कर्मास्रव ) निषेधकारणं यतस्तेन संवरकारणं पूर्वकमधूलिविधूननं यतस्तेन निर्जराकारणं पञ्चविंशतिसूत्रे व्याख्यातं वेदितव्यम् ।
२५ अथ सर्वे सदृष्टयः किं समाननिर्जरा भवन्ति उतश्विदस्ति तेषां निर्जराविशेष इति प्रश्ने सूत्रमिदमाहुःसम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्ये
यगुणनिर्जराः ॥ ४५ ॥ १ -समुदयेन साम- भा०, द०, ज० । २ --मलबन्ध- आ०, द०, ज० । ३ सञ्जात उत्पन्न सुवर्णरूपसदृशः आ०, द०, ज०। ४ संगच्छति आ०, ६०, ज० |
For Private And Personal Use Only