SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ तत्त्वार्थवृत्तौ [९१४४ अथ वीचारशब्देन किं लभ्यते इति प्रश्ने सूत्रमिदमाहुः... वीचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ॥ ४४ ॥ अर्थश्च व्यञ्जनश्च योगश्च अर्थव्यञ्जनयोगास्तेषां सङ्क्रान्तिः अर्थव्यञ्जनयोगसङ्क्रातिः वीचारो भवतीति तात्पर्यम् । अर्थो ध्येयो ध्यानीयो ध्यातव्यः पदार्थः द्रव्यं पर्यायो वा। ५ व्यञ्जनं वचनं शब्द इति यावत् । योगः कायवाङ्मनःकर्मसङ्क्रान्तिः परिवर्तनम् । तेनायमर्थः द्रव्यं ध्यायति द्रव्यं त्यक्त्वा पर्यायं ध्यायति पर्यायञ्च परिहत्य पुनद्रव्यं ध्यायति इत्येवं पुनः पुनः 'सङ्क्रमणमर्थसङ्क्रान्तिरुच्यते । तथा श्रुतज्ञानशब्दमवलम्ब्य अन्यं श्रुतज्ञानशब्दमवलम्बते, तमपि परिहत्य अपरं श्रुतज्ञानवचनमाश्रयति एवं पुनः पुनस्त्यजन्नाश्रयमाणश्च व्यञ्जनसङ् क्रान्ति लभते । तथा काययोगं मुक्त्वा वाग्योग मनोयोग वा आश्रयति तमपि विमुच्य काययोग१० मागच्छति एवं पुनः पुनः कुर्वन् योगसङ्क्रान्ति प्राप्नोति । अर्थव्यञ्जनयोगानां सङ्क्रान्तिः परिवर्तनं वीचारः कथ्यते । नन्वेवंविधायां सङ्क्रान्तौ सत्यामनवस्थानहेतुत्वाद् ध्यानं कथं घटते ? साधूक्तं भवता; ध्यानसन्तानोऽपि ध्यानं भवत्येव बहुत्वाद् दोषो न विमृश्यते । द्रव्यसन्तानः पर्यायः शब्दस्य शब्दान्तरं सन्तानः, योगस्य योगान्तरञ्च सन्तानस्तद्ध्यानमेव भवतीति नास्ति दोषः । तस्मात्कारणात् सङ्क्रान्तिलक्षणवीचारादपरविशेषकथितं चतुःप्रकारं धयं ध्यानं शुक्लञ्च १५ ध्यानं संसारविच्छित्तिनिमित्तं चतुर्दशपूर्वप्रोक्तगुप्तिसमितिदशलक्षणधर्मद्वादशानुप्रेक्षाद्वाविं शतिपरीषहजयचारित्रलक्षणबहुविधोपायं मुनिर्व्यातुं योग्यो भवति । गुप्त्यादिषु कृतपरिकर्मा विहिताभ्यासः सन् परद्रव्यपरमाणुं द्रव्यस्य सूक्ष्मत्वं भावपरमाणुं पर्यायस्य सूक्ष्मत्वं वा ध्यायन् सन् समारोपितवितर्कसामर्थ्यः सन्नर्थव्यञ्जने कायवचसी च पृथक्तवेन सङ्क्रमता मनसा असमर्थशिशूद्यमवत् प्रौढार्भकवव्यवस्थितेन अतीक्ष्णन कुठारादिना शस्त्रेण चिराद् वृक्षं २० छिन्दन्निव मोहप्रकृतीरुपशमयन् क्षपयंश्च मुनिः पृथक्त्ववितर्कवीचारध्यानं भजते। स एव पृथक्त्ववितर्कवीचारध्यानभाक् मुनिः समूलमूलं मोहनीयं कर्म निर्दिधक्षन् मोहकारणभूतसूक्ष्मलोभेन सह निर्दग्धुमिच्छन् भस्मसात्कर्तुकामोऽनन्तगुणविशुद्धिकं योगविशेष समाश्रित्य प्रचुरतराणां ज्ञानावरणसहकारिभूतानां प्रकृतीनां बन्धनिरोधस्थितिहासौ च विदधन सन् श्रुतज्ञानोपयोगः सन् परिहृतार्थव्यञ्जनसङ्क्रान्तिः सन्नप्रचलितचेताः क्षीणकषायगुणस्थाने २५ स्थितः सन् 'बालवायजमणिरिव निष्कलङ्कः सन् वैडूर्यरत्नमिव निरुपलेपः सन् पुनरधस्ताद निवर्तमान एकत्ववितर्कवीचारं ध्यानं ध्यात्वा निर्दग्धघातिकर्मन्धनो जाज्वल्यमानकेवलज्ञानकिरणमण्डलः सन् मेघपटलविघटनाविर्भूतो देवः सविता इव प्रकाशमानो भगवांस्तीर्थकरपरमदेवः सामान्यानगारकेवली वा गणधर वर केवली वा त्रिभुवनपतीनामभिगम्य पूजनीयश्च *सञ्जायमानः प्रकर्षेण देशोनां पूर्वकोटी भूमण्डले विहरति । स भगवान् यदा अन्तर्मुहूर्त शेषा १ सङक्रममर्थ- ता० । २ पुनस्त्यजनादाश्रयणाच आ०, द०, ज० । ३ विस्मृश्यते ता० । ४ वैडूर्यमणिः। ५ -भूभो वेवः आ०, ज० । -भूभो केवः द०। ६ -धरचरकेवली ता० । -धरदेवके-द। ७सा जयमानः ता० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy