SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९।४१-४३] नवमोऽध्यायः यस्य स काययोगः । न विद्यते योगो यस्य स अयोगः। त्रियोगश्च एकयोगश्च त्र्येकयोगौ तौ च काययोगश्चायोगश्च त्र्येकयोगकाययोगायोगास्तेषां व्येकयोगकाययोगायोगानाम् । अस्यायमर्थः-पृथक्त्ववितकं त्रियोगस्य भवति । मनोवचनकायानामवष्टम्भेनात्मप्रदेशपरिस्पन्दनम् आत्मप्रदेशचलनम् । ईम्विधं पृथक्त्ववितर्कमाद्यं शुक्लध्यानं भवतीत्यर्थः । एकत्ववितर्क शुक्लध्यानं त्रिषु योगेषु मध्ये मनोवचनकायानां मध्येऽन्यतमावलम्बनेनात्मप्रदेशपरि- ५ स्पन्दनमात्मप्रदेशचलनं द्वितीयमेकत्ववितर्क शुक्लध्यानं भवति । सूक्ष्मक्रियाप्रतिपाति काययोगावलम्बनेनात्मप्रदेशपरिस्पन्दनमात्मप्रदेशचलनं तृतीयं शुक्लध्यानं सूक्ष्मक्रियाप्रतिपाति भवति । व्युपरतक्रियानिवर्तिशुक्लध्यानेनकमपि योगमवलम्ब्य आत्मप्रदेशपरिस्पन्दनमात्मप्रदेशचलनं भवति। अथ चतुर्षु शुक्लध्यानेषु मध्ये पृथक्तववितर्कैकत्ववितक योविशेषपरिज्ञानार्थ' १० सूत्रमिदमाहुः एकाश्रये सवितर्कवीचारे पूर्व ॥ ४१॥ पूर्वे द्वे ध्याने पृथक्त्ववितर्कमेकत्ववितर्कश्च । एते द्वे ध्याने कथम्भूते ? एकाश्रये । एकोऽद्वितीयः परिप्राप्तसकलश्रुतज्ञानपरिसमाप्तिः पुमानाश्रयो ययोरते एकाश्रये । एते द्वे ध्याने परिपूर्णश्रुतज्ञानेन पुंसा आरभ्येते इत्यर्थः । पुनरपि कथम्भूते पूर्वे द्वे ध्याने ? सवितर्कवीचा- १५ रे । वितर्कश्च वीचारश्च वितर्कवीचारौ वितकवीचाराभ्यां सह वर्तेते सवितर्कवीचारे पृथक्त्वमपि वितर्कसहितमेकत्वमपि वितर्कसहितम् । तथा पृथक्त्वमपि वीचारसहितमेकत्वमपि वीचारसहितमिति तावदनेन सूत्रेण स्थापितम् । तेन पृथक्त्ववितर्कवीचारं प्रथमं शुक्लमेकत्ववितर्कवीचारं द्वितीयं शुक्लमित्येवं भवति । __अथैकत्ववितर्कवीचारे योऽसौ वीचारशब्दः स्थापितः सन सिद्धान्ताभिमतस्तन्निषेधार्थ २० सिंहावलोकनन्यायेन भगवान् सूत्रमिदं ब्रवीति अवीचारं द्वितीयम् ॥ ४२ ॥ न विद्यते वीचारो यस्मिन् तदवीचारं द्वितीयमेकत्ववितर्कमित्यर्थः । तेन आद्यं शुक्लध्यानं सवितर्क सवीचारञ्च स्यात् द्वितीयं शुक्लध्यानं सवितर्कमवीचारं भवेत् तेनाद्यं पृथक्त्ववितर्कवीचारं द्वितीयन्तु एकत्ववितर्कावीचारमित्युभेऽपि ध्यानेऽन्वर्थसंज्ञे वेदितव्ये । २५ अथान्वर्थसंज्ञाप्रतिपत्त्यर्थ सूत्रमिदमुच्यते वितर्कः श्रुतम् ।। ४३ ॥ विशेषेण विशिष्टं वा तर्कणं सम्यगृहनं वितर्कः श्रुतं श्रुतज्ञानम् । वितर्क इति कोऽर्थः ? श्रुतज्ञानमित्यर्थः। प्रथमं शुक्लध्यानं द्वितीयं शुक्लध्यानं श्रुत ज्ञानवलेन ध्यायते इत्यर्थः । १ -ज्ञापनार्थम् आ०, द०, ज० । २ ज्ञानेन मा०, द०, ज.। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy