SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० तत्त्वार्थवृत्ती [ ९।३७-४० धर्म्यमप्रमत्तसंयतस्य साक्षाद् भवति अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां तु गौणवृत्त्या धर्म्यध्यानं वेदितव्यमिति ।। ____ अथ शुक्लध्यानमपि चतुर्विधं भवति । तत्र प्रथमशुक्लध्यानद्वयस्य तावत् स्वामित्वमुच्यते-- शुक्ले चाद्ये पूर्वविदः ॥ ३७॥ शुक्लध्यानं' खलु चतुर्विधमने वक्ष्यति । तन्मध्ये आये द्वे शुक्ले शुक्लध्याने पृथक्त्ववितर्कविचारकत्ववितर्कविचारसंज्ञे पूर्वविदः सकलश्रुतज्ञानिनो भवतः श्रुतकेवलिनः सजायेते इत्यर्थः । चकारात् धर्म्यध्यानमपि भवति । "व्याख्यानतो विशेषप्रतिपत्ति नहि सन्देहादलक्षणम्" [ ] इति वचनात् श्रेण्यारोहणात् पूर्व धम्यं ध्यानं भवति । १० श्रेण्योस्तु द्वे शुक्लध्याने भवतस्तेन सकलश्रुतधरस्यापूर्वकरणात्पूर्व धर्म्य ध्यानं योजनीयम् । अपूर्वकरणेऽनिवृत्तिकरणे सूक्ष्मसाम्पराये उपशान्तकषाये चेति गुणस्थानचतुष्टये पृथक्त्ववितर्कविचार नाम प्रथमं शुक्लध्यानं भवति । क्षीणकषायगुणस्थानेषु एकत्यवितर्कविचारं भवति । अथापरशुक्लध्यानद्वयं कस्य भवतीति प्रश्ने सूत्रमिदमाहुः परे केवलिनः ॥ ३८ ॥ परे सूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तिनाम्नी द्वे शुक्लध्याने केवलिनः प्रक्षीणसमस्तज्ञानावृतेः सयोगकेवलिनोऽयोगकेवलिनश्चानुक्रमेण ज्ञातव्यम् । कोसावनुक्रमः ? सूक्ष्मक्रियाप्रतिपाति सयोगस्य व्युपरतक्रियानिवर्ति अयोगस्य ।। अथ येषां स्वामिनः प्रोक्तास्तेषां भेदपरिज्ञानार्थ सूत्रमिदमाहुः पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तानि ॥३६॥ २० वितर्कशब्दः प्रत्येकं प्रयुज्यते तेनायं विग्रहः-पृथक्त्ववितर्कञ्च एकत्ववितर्कश्च पृथक्वे कत्ववितर्के ते च सूक्ष्मक्रियाप्रतिपाति च व्युपरतक्रियानिवति च पृथक्त्वकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि । सूक्ष्मक्रियापादविहरणात्मकक्रियारहिता पद्मासनेनैव गमनं तस्या अप्रतिपातोऽविनाशो 'वर्तते यस्मिन शुक्लध्याने तत्सूक्ष्मक्रियाप्रतिपाति । व्युपरता विनष्टा सूक्ष्मापि क्रिया व्युपरतक्रिया तस्यां सत्यामतिशयेन वर्तते इत्येवं शीलं यच्छुक्लध्यानं तद्२५ न्युपरतक्रियानिवति । एतानि चत्वारि शुक्लध्यानानि भवन्ति । एतेषां चतुणा शुक्लध्यानानां प्रतिनियतयोगावलम्बनत्वपरिज्ञानार्थ सूत्रमिदमाहुः स्वामिनः त्र्येकयोगकाययोगायोगानाम् ।। ४० ॥ योगशब्दः प्रत्येकं प्रयुज्यते । तेनायं विग्रहः-त्रयः कायवाङ्मनःकर्मलक्षणा योगा ३० यस्य स त्रियोगः। त्रिषु योगेषु मध्ये एकः कोऽपि योगो यस्य स एकयोगः। कायस्य योगो १-ध्यानं चतु- आ०,द०, ज० । २ विद्यते ता० । १ सत्यां न्यतिशयेन ता०, ८०, ज. ! For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy