________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९॥३६ ]
नवमोऽध्यायः आज्ञापायविपाकसंस्थान विचयाय धर्म्यम् ॥ ३६॥ आज्ञा च अपायश्च विपाकश्च संस्थानञ्च आज्ञापायविपाकसंस्थानानि तेषां विचयनं विचय आज्ञापायविपाकसंस्थानविचयस्तस्मै आज्ञापायविपाकसंस्थानविचयाय धर्म्यध्यानं भवति । किन्तद् धर्म्यध्यानम् ? स्मृतिसमन्वाहारः-चिन्ताप्रबन्धः। किमर्थं चिन्ताप्रबन्धः ? आज्ञाविपाकाय आज्ञाविचयाय आज्ञाविवेकाय आज्ञाविचारणायै । तथा अपायविचयाय ५ स्मृतिसमन्वाहारः धर्मध्यानं भवति । तथा विपाकविचयाय स्मृतिसमन्वाहारो धर्म्यध्यानं भवति । तथा संस्थानविचयाय स्मृतिसमन्वाहारो धर्मध्यानं भवति । कोऽसौ आज्ञाविचयः ? यथावदुपदेष्टुः पुरुषस्याभावे सति आत्मनश्च कर्मोदयान्मन्दबुद्धित्वे सति पदार्थानामतिसूक्ष्मत्वे सति हेतुदृष्टान्तानाञ्च उपरमे सति य आसन्नभव्यः सर्वज्ञप्रणीतं शास्त्रं प्रमाणीकृत्य सूक्ष्मवस्त्वर्थं मन्यते अयं वस्त्वर्थ इत्थ- १० मेव वर्तते । इत्थं कथम् ? यादृशमर्थं जैनागमः कथयति सोऽर्थस्तादृश एवान्यथा न भवति "नान्यथावादिनो जिना" [ ] इति वचनात् । अतिगहनपदार्थश्रद्धानेनार्थावधारणमाज्ञाविचय' उच्यते । अथवा स्वयमेव विज्ञातवस्तुतत्त्वो विद्वान् तद्वस्तुतत्त्वं प्रतिपादयितुमिच्छुर्निजसिद्धान्ताऽविरोधेन तत्त्वस्य समर्थनार्थं तर्कनयप्रमाणयोजनपरः सन् स्मृतिसमन्वाहारं विदधाति चिन्ताप्रबन्धं करोति । किमर्थं स्मृतिसमन्वाहारं करोति? १५ सर्वशवीतरागस्याज्ञाप्रकाशनार्थम् । सर्वज्ञवीतरागप्रणीततत्त्वार्थप्रकटनाथं स 'पुमान् आज्ञाविचयलक्षणं धयं ध्यानं प्राप्नोति । १ । मिथ्यादृष्टयो जन्मान्धसदृशाः सर्वज्ञवीतरागप्रणीतसन्मार्गपराङ्मुखाः सन्तो मोक्षमाकाङ्क्षन्ति तस्य तु मार्ग न सम्यक् परिजानते तं मार्गमतिदूरं परिहरन्तीति सन्मार्गविनाशचिन्तनमपायविचय उच्यते । अथवा मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्राणामपायो विनाशः कथममीषां प्राणिनां भविष्यतीति स्मृतिसमन्याहा- २० रोऽपायविचयो भण्यते । २ । ज्ञानावरणाद्यष्टककर्मणां द्रव्यक्षेत्रकालभवभावहेतुकं फलानुभवनं यज्जीवः चिन्तयति स विपाकविचयः समुत्पद्यते । ३ । त्रिभुवनसंस्थानस्वरूपविचयाय स्मृतिसमन्वाहारो संस्थानविचयो निगद्यते।
___ ननु धादनपेतं धर्म्यमिति भवद्भिरुक्तं तत्कोऽसौ धर्मो यस्मादनपेतं धर्म्यमुच्यते इति चेत् ? उच्यते-उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्यदशलक्षणो २५ धर्मः । निजशुद्धबुद्धैकस्वभावात्मभावनालक्षणश्च धर्मः । अगार्यनगारचारित्रञ्च धर्मः। सूक्ष्मबादर दिप्राणिनां रक्षणञ्च धर्मः। तदुक्तम्
"धम्मो वत्थुसहावो खमादिभावो य दसविहो धम्मो।
चारित्तं खलु धम्मो जीवाणं रक्खणं धम्मो ॥" [कत्ति० अणु० गा० ४७६] तस्मादुक्तलक्षणाद्धर्मादनपेतमपरिच्युतं ध्यानं धर्म्यमुच्यते । ईदृग्विधं चतुर्विधमपि ३० १-यमुच्यते आ०, द०, ज० ।
For Private And Personal Use Only