SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ तत्त्वार्थवृत्ती [ ९।३४-३५ ध्यानं भवति किन्तु निदानञ्च चतुर्थमार्तध्यानं भवति, अनागतभोगाकाङ्क्षालक्षणं निदानमुच्यते इत्यभिप्रायः । अथैतच्चतुर्विधमप्यातध्यानं कस्योत्पद्यते इति तस्य स्वामित्वसूचनार्थं सूत्रमिदमाहुः तदविरतदेशविरतप्रमत्तसंयतानाम् ।। ३४ ॥ न विरता न व्रतं प्राप्ता अविरताः मिथ्यादृष्टिसासादनमिश्रासंयतसम्यग्दृष्टिगुणस्थानचतुष्टयवर्तिनोऽविरता उच्यन्ते । देशविरताः संयतासंयताः, श्रावका इत्यर्थः । प्रमत्तसंयताश्चारित्राऽनुष्ठायिनः पञ्चदशप्रमादसहिता महामुनय उच्यन्ते । अविरताश्च देशविरताश्च प्रमत्तसंयताश्च अविरतदेशविरतप्रमत्तसंयतास्तेषामविरतदेशविरतप्रमत्तसंयतानां तत्पूर्वोक्तमार्त ध्यानं भवति । तत्र आद्यगुणस्थानपञ्चकवर्तिनां चतुर्विधमप्यात सञ्जायते असंयमपरिणाम१० सहितत्वात् । प्रमत्तसंयतानां तु चतुर्विधमप्यार्तध्यानं भवति अन्यत्र निदानात् । देशविरतस्यापि निदानं न स्यात् सशल्यस्य व्रतित्वाघटनात् । अथवा स्वल्पनिदानशल्येनाणुव्रतित्वाविरोधाद् देशविरतस्य चतुर्विधमप्यातं सङ्गच्छत एव । प्रमत्तसंयतानां त्वार्त्तत्रयं प्रमादस्योदयाधिक्यात् कदाचित् सम्भवति । अथ रौद्रध्यानस्य लक्षणं स्वामित्वं केनैव सूत्रेण सूचयितुं सूत्रमिदमाहुः१५ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेश विरतयोः ॥ ३५ । हिंसा च प्राणातिपातः अनृतश्चाऽसत्यभाषणं स्तेयञ्च परद्रव्यापहरणं विषयसंरक्षणञ्च इन्द्रियार्थभोगोपभोगसम्यक्प्रतिपालनयत्नकरणं हिंसानृतस्तेयविषयसंरक्षणानि तेभ्यः हिंसानृत स्तेयविषयसंरक्षणेभ्यः । पञ्चमीबहुवचनमेतत् । एतेभ्यश्चतुर्यो रौद्रं रौद्रध्यानं समुत्पद्यते इति २० वाक्यशेषः। तद् रौद्रध्यानं हिंसानृतस्तेयविषयसंरक्षणस्मृतिसमन्वाहारलक्षणमविरतदेशविर तयोर्भवति पञ्चगुणस्थानस्वामिकमित्यर्थः। ननु अविरतस्य रौद्रध्यानं जाघटीत्येव देशविरतस्य तत्कथं सङ्गच्छते ? साधूक्तं भवता; य एकदेशेन विरतस्तस्य कदाचित् प्राणातिपाताद्यभिप्रायात् धनादिसंरक्षणत्वाच्च कथं न घटते परमयन्तु विशेषः-देशसंयतस्य रौद्रमुत्पद्यते एव परं नरकादिगतिकारणं तन्न भवति सम्यक्तवरत्नमण्डितत्वात् । तदुक्तम् “सम्यग्दर्शनशुद्धाः नारकतिर्यड्नपुंसकस्त्रीत्वानि । दुष्कुलविकृताल्पायुर्दरिद्रताश्च ब्रजन्ति नाप्यत्रतिकाः।" [ रत्नक० श्लो० ३५] प्रमत्तसंयतस्य तु रौद्रध्यानं न भवत्येव रौद्रध्यानारम्भे असंयमस्य सद्भावात् । अथाद्य मोक्षकारणधर्म्यध्यानप्रकारलक्षणस्वामित्वादिनिर्देष्टुकामस्तत्प्रकारनिरूपणार्थ सूत्रमिदमाह १ तु तच्चात्रियम् ता० । २ असंयतस्य तद्भावात् आ०, ६०, ज० । ३ अथाद्य मोक्षकारणं धर्म्यध्यानलक्षणं स्वामित्त्रमिदमाहुः आ०, द०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy