SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९/३०-३३ ] नवमोऽध्यायः भवतः । तत्र धर्म्यं ध्यानं पारम्पर्येण मोक्षस्य हेतुस्तद् गौणतया मोक्षकारणमुपचर्यते, शुक्रुध्यानन्तु साक्षात् तद्भवे मोक्षकारणमुपशमश्रेण्यपेक्षया तु तृतीये भवे मोक्षदायकम् । यदि परे धर्म्य शुक्लध्याने मोक्ष हेतू वर्तेते तर्हि आर्तरौद्रे द्वे ध्याने संसारस्य हेतू भवत इति अर्थापत्त्यैव ज्ञायते तृतीयस्य साध्यस्याभावात् । अथार्त ध्यानस्वरूपमाह- अथ द्वितीयस्यार्तस्य लक्षणमाह विपरीतं मनोज्ञस्य ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ||३०|| 'मनो जानातीति अमनोज्ञमप्रियं वस्तु चेतनमचेतनञ्च । तत्र चेतनं कुत्सितरूपदुर्गन्धशरीर दौर्भाग्यादिसहितं कलत्रादिकं नासाद्युत्पादकमुद्वेगजननश्च शत्रुसर्पादिकञ्च, अचेतनं परप्रयुक्तं शस्त्रादिकं विपकण्टकादिकञ्च बाधाविधान हेतुत्वात् । एतस्य सम्प्रयोगे सम्बन्धे संयोगे सति तद्विप्रयोगाय तस्यामनोज्ञस्य विप्रयोगाय विनाशार्थं स्मृतिसमन्वाहारः स्मृतेश्चिन्तायाः १० समन्वाद्दारः अपराध्यानरहितत्वेन पुनः पुनचिन्तने प्रवर्तनं स्मृतिसमन्वाहारः । कथमेतस्य मत्त विनाशो भविष्यतीति चिन्ताप्रबन्ध इत्यर्थः । - ३०७ मनो जानाति चित्ताय रोचते मनोज्ञं तस्य मनोज्ञस्य प्रियस्य वस्तुनोऽर्थकथनं विपरी - १५ तं पूर्वोक्तादर्थाद् विपरीत चिन्तनं विपर्यस्ताध्यानं द्वितीयमार्तं भवति । किन्तद् विपरीतम् ? मनोज्ञस्य ४ निजपुत्रकलत्रस्त्रापतेयादेविंप्रयोगे बियोगे सति तत्संयोगाय स्मृतिसमन्वाहारो " विकल्प श्चिन्ता प्रबन्ध इष्ट संयोगा परनामकं द्वितीयमार्तध्यानं वेदितव्यम् । अथ तृतीयार्त ध्यानलक्षणमाह ५ वेदनायाश्च ॥ ३१॥ I अत्र चकारः परस्परसमुच्चये वर्तते । तेनायमर्थः - न केवलं मनोज्ञस्य विपरीतं वेदनायाच विपरीतम् । वेदनायाः कस्माद् विपरीतम् ? मनोज्ञात् । तेनायमर्थः - वेदनाया दुःखस्य सम्प्रयोगे सति तद्विप्रयोगाय स्मृतिसमन्वाहारस्तृतीयमार्तं भवति । वेदनया पीडितस्याऽस्थिरचित्तस्य परित्यक्तधीरत्वस्य वेदना ' संन्निधाने सति कथमेतस्याः वेदनायाः विनाशो भविष्यतीति वेदनावियोगाय पुनः पुनश्चिन्तनमङ्गविक्षेपणमाक्रन्दनं वाष्पजलविमोचनं पापोऽयं रोगो २५ माती बाधते कदायं रोगो विनङ्क्ष्यतीति स्मृति समन्वाहारस्तृतीयमार्तध्यानं भवतीत्यर्थः । अथ चतुर्थस्यार्तध्यानस्य लक्षणं निर्दिश्यते निदानञ्च ॥ ३३ ॥ अत्र चकार आर्तेन सह समुच्चीयते । तेनायमर्थ:- न केवलं पूर्वोक्तं प्रकारं तृतीयमार्त For Private And Personal Use Only १ मनोज्ञातीति ता० । २ प्रियवस्तु आ०, ६० ज० । ३ तचित्तचिन्तनम् आ०, ६०, ज० । ४ इष्टनिज - आ०, ५०, ज० । ५ विकल्पचि- आ०, द० ज० । ६ संविधाने आ०, ६०, ज० । ७ विनश्यतीति आ०, द० ज० । , २०
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy