________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९।२६-२७] नवमोऽध्यायः
३०५ परप्रतारणोपहासादिनिमित्त यदि भवति तदा संवरार्थिका न भवति । परिज्ञातार्थस्य एकाग्रेण मनसा यत्पुनः पुनरभ्यसनमनुशीलनं सा अनुप्रेक्षा लक्ष्यते । अष्टस्थानोच्चारविशेषेण यच्छुद्धं घोषणं पुनः पुनः परिवर्तनं स आम्नायः कथ्यते । दृष्टादृष्टप्रयोजनमनपेक्ष्य उन्मार्गविच्छेदनार्थं सन्देहच्छेदनार्थमपूर्वार्थप्रकाशनादिकृते केवलमात्मश्रेयोऽर्थं महापुराणादिधर्मकथाद्यनुकथनं धर्मोपदेश उच्यते । तदुक्तम्
“हितं ब्रूयात् मितं ब्रूयात् ब्रूयाद्धय॑ यशस्करम् ।
प्रसङ्गादपि न ब यादधर्म्यमयशस्करम् ॥"[ ]
अस्य पञ्चविधस्यापि स्वाध्यायस्य च किं फलम् ? प्रज्ञातिशयो भवति प्रशस्ताध्यवसायश्च सञ्जायते परमोत्कृष्टसंवेगश्चकास्ति । कोऽर्थः ? प्रवचनस्थितिर्जागर्ति तपोवृद्धिोभोति, अतिचारविशोधनं वर्वति, संशयोच्छेदो जाघटीति, मिथ्यावादिभयाद्यभावो भवति । अथ व्युत्सर्गस्वरूपनिरूपणं विधीयते--
बाह्याभ्यन्तरोपध्योः ।। २६॥ बाह्यश्च अभ्यन्तरश्च बाह्याभ्यन्तरौ, तौ च तो उपधी परिग्रही बाह्याभ्यन्तरोपधी तयोर्बाह्याभ्यन्तरोपध्योः । सम्बन्धे षष्ठीद्विवचनम् । तेनायमर्थः-बाह्यस्योपधेरभ्यन्तरस्य चोपधेर्युत्सर्गो व्युत्सर्जनं परित्यागो द्विविधो भवति । वास्तुधनधान्यादिरुपात्तो बाह्योपधिः । १५ कोपादिक आत्मदुष्परिणामोऽभ्यन्तरोपधिः । नियतकालो यावज्जीवं वा शरीरत्यागः अभ्यन्तरोपधित्याग उच्यते । महाव्रते धर्मे प्रायश्चित्ते अत्र च यद्यप्यनेकवारान् व्युत्सर्ग उक्तस्तथापि न पुनरुक्तदोषः', कस्यचित् पुरुषस्य क्वचित् त्यागशक्तिरिति पुरुषशक्त्यपेक्षयाऽनेकत्र' भणनमुत्तरोत्तरोत्साहात्यागार्थ वाऽनेकत्र भणनं न दोषाय भवति । तस्य व्युत्सर्गस्य किं फलम् ? निःसङ्गत्वं निर्भयत्वं जीविताशानिरासो दोषोच्छेदनं मोक्षमार्गभावनापरत्व- २० मित्यादि।
अथ ध्यानं बहुवक्तव्यमिति यदुक्तं तस्य स्वरूपनिरूपणार्थ प्रबन्धो रच्यते । तत्र तावद् ध्यानस्य प्रयोक्ता ध्यानस्वरूपं ध्यानकालनिर्धारणं चैतत्त्रयं मनसि कृत्वा सूत्रमिदमाहुराचार्याःउत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥ २७ ॥ २५
उत्तमसंहननं वर्षभवज्रनाराचनाराचलक्षणं यस्य स उत्तमसंहननस्तस्योत्तमसंहननस्येत्यनेन ध्यानस्य कर्ता प्रोक्तः । एवंविधस्य पुरुषस्य ध्यानं भवति। किन्नाम ध्यानम् ? एकाग्र
१-रुक्तो दोषः आ०, द०, ज० । २ त्यागे शक्तिः आ०, द०, ज०। ३ –नेकशः भ- आ०, २०, ज०। ४ धृत्वा आ०, द०, ज० । ५ ध्यानकर्ता आ०, द०, ज० ।
३९
For Private And Personal Use Only