SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ तत्त्वार्थवृत्ती [९:२४-२५ ज्ञानश्च ज्ञानविनयः दर्शनञ्च दर्शनचिनयः चारित्रञ्च चारित्रविनयः उपचारश्च उपचारविनयः ज्ञानदर्शनचारित्रोपचाराः। एवमधिकृत एव विनयशब्दोऽत्र योजितव्यः ।अनलसेन देशकालद्रव्यभावादिशुद्धिकरणेन बहुमानेन मोक्षार्थं ज्ञानग्रहणं ज्ञानाभ्यासो ज्ञानस्मरणादिकं यथाशक्ति ज्ञानविनयो वेदितव्यः । तत्त्वार्थश्रद्धाने शङ्कादिदोषरहितत्वं दर्शनविनय उच्यते । ज्ञानदर्शनवतः पुरुषस्य दुश्चरचरित्रे विदिते सति तस्मिन् पुरुषे भावतोऽतीवभक्तिविधानं भवति । स्वयं चारित्रानुष्ठानच चारित्रविनयो भवति । आचार्योपाध्यायादिषु अध्यक्षेषु अभ्युत्थानं वन्दनाविधानं 'करकुड्मलीकरणम्,तेषु परोक्षेषु सत्सु कायवाङमनोभिः करयोटनं गुणसङ्कीर्तनमनुम्मरणं स्वयं ज्ञानानुष्ठायित्वञ्च उपचारविनयः । विनये सति ज्ञानलाभो भवति आचारविशुद्धिश्च सञ्जायते, सम्यगाराधनादिकळच घुमौल्लभते । इति विनयफलं १० ज्ञातव्यम् । अथ वैयावृत्त्यभेदमाहआचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसङ्घसाधुमनोज्ञानाम् ॥ २४ ॥ आचायश्च उपाध्यायश्च तपस्वी च शैक्षश्च ग्लानश्च गणश्च कुलकच संघश्च साधुश्च मनोज्ञश्च ते तथोक्ताः । तेषां दशविधान पुरुषाणां दशविधं वैयावृत्त्यं भवति । आचरन्ति १५ व्रतान् यस्मादित्याचार्यः । मोक्षार्थमुपेत्याधीयते शास्त्रं तस्मादित्युपाध्यायः । महोपवासादि तपोऽनुष्ठानं विद्यते यस्य स तपस्वी । शास्त्राभ्यासशील शैक्षः। रोगादिपीडितशरीरो ग्लानः । वृद्धमुनिसमूहो गणः । दीक्षकाचार्यशिष्यसङ्घातः कुलम् । ऋषिमुनियत्यनागारलक्षणश्चातुवर्ण्यश्रमणसमूहः सङ्घः । ऋष्यार्यिकाश्रावकश्राविकासमूहो वा सङ्घः । चिरदीक्षितः साधुः वक्तृत्वादिगुणविराजितो लोकाभिसम्मतो विद्वान् मुनिर्मनोज्ञ उच्यते । तादृशोऽसंयतसम्यग्द२० ष्टिा मनोज्ञ उच्यते । एतेषां दविधानां व्याधौ सति प्रासुकौषधभक्तपानादिपथ्यवस्तुवसति कासंस्तरणादिभियावृत्त्यं कर्तव्यम्। धर्मोपकरणः परीषहविनाशनः मिथ्यात्वादिसम्भवे सम्यक्तवे प्रतिष्ठापनं बाह्यद्रव्यासम्भवे कायेन श्लेष्माद्यन्तर्मलाद्यपनयनादिकं तदनुकूलानुष्ठानश्च वैयावृत्त्यमुच्यते । तदनुष्ठाने किं फलम् ?समाधिप्राप्तिः विचिकित्साया अभावः वचनवात्सल्यादिप्राकट्यञ्च वेदितव्यम् । अथ स्वाध्यायभेदानाह वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥ २५ ॥ वाचना च पृच्छना च अनुप्रेक्षा च आम्नायश्च धर्मोपदेशश्च वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः । एते पञ्च स्वाध्याया उच्यन्ते । पञ्चानां लक्षणम् यथा यो गुरुः पापक्रियाविरतो भवति अध्यापनक्रियाफलं नापेक्षते से गुरुः शास्त्रं पाठयति शास्त्रस्यार्थ वाच्यं कथयति ग्रन्था३० र्थद्वयञ्च व्याख्याति एवं त्रिविधमपि शास्त्रप्रदानं पात्राय ददाति उपदिशति सा वाचना कथ्यते । पृच्छना प्रश्नः अनुयोगः । शास्त्रार्थं जानन्नपि गुरुं पृच्छति । किमर्थम् ? सन्देहविनाशाय । निश्चितोऽप्यर्थः किमर्थ पृच्छयते ? बलाधाननिमित्तं ग्रन्थार्थप्रबलतानिमित्तं सा पृच्छना। निजोन्नति १-तोऽतिभक्ति-ता० । २ अञ्जलिकरणम् । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy