SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९।२३ ] नवमोऽध्यायः ३०३ कर्तव्या । शुद्धस्याप्यशुद्धत्वेन यत्र सन्देहविपर्ययो भवतः, अशुद्धस्यापि शुद्धत्वेन वा यत्र निश्चयो भवति तत्र तदुभयमालोचनप्रतिक्रमणद्वयं भवति । यद्वस्तु नियतं भवति तद्वस्तु चेन्निजभाजने पतति मुखमध्ये वा समायाति यस्मिन् वस्तुनि गृहीते वा कषायादिकमुत्पद्यते तस्य सर्वस्य वस्तुनस्त्यागः क्रियते तद्विवेकनाम प्रायश्चित्तं भवति । नियतकालं कायस्य वाचो मनसश्च त्यागो व्युत्सर्ग उच्यते । उपवासादिपूर्वोक्तं षड्विधं बाह्यं तपस्तपोनाम' प्रायश्चित्तं ५ भवति । दिवसपक्षमासादिविभागेन दीक्षाहापनं छेदो नाम प्रायश्चित्तं भवति । दिवसपक्षमासादिविभागेन दूरतः परिवर्जनं परिहारो नाम प्रायश्चित्तं भवति । महाव्रतानां मूलच्छेदनं विधाय पुनरपि दीक्षाप्रापणम् उपस्थापना नाम प्रायश्चित्तं भवति । अत्राचार्यमपृष्ट्वा आतापनादिकरणे आलोचना भवति । पुस्तकपिच्छ्यादिपरोपकरणग्रहणे आलोचना भवति । परोक्षे प्रमादतः आचार्यादिवचनाकरणे आलोचना भवति । आचार्यमपृष्ट्वा आचार्यप्रयोजनेन गत्वा १० आगमने आलोचना भवति । परसङ्घमपृष्ट्वा स्वसंघागमने आलोचना भवति । देशकालनियमेन अवश्यकर्तव्यस्य व्रतविशेषस्य धर्मकथादिव्यासङ्गेन विस्मरणे सति पुनःकरणे आलोचना भवति । एवंविधेऽन्यस्मिन् कार्यस्खलने आलोचनैव प्रायश्चित्तं भवति । षडिन्द्रियेषु 'वागादिदुःपरिणामे प्रतिक्रमणं भवति । आचार्यादिषु हस्तपादादिसंघट्टने प्रतिक्रमणं भवति । व्रतसमितिगुप्तिषु स्वल्पातिचारे प्रतिक्रमणं भवति । पैशुन्यक- १५ लहादिकरणे प्रतिक्रमणं भवति । वयावृत्त्यस्वाध्यायादिप्रमादे प्रतिक्रमणं भवति । गोचरगतस्य कामलतोप्थाने प्रतिक्रमणं भवति । परसंक्लेशकरणादौ च प्रतिक्रमणं भवति । दिवसरात्र्यन्ते भोजनगमनादौ आलोचनाप्रतिक्रमणद्वयं भवति । लोचनखच्छेदस्वप्नेन्द्रियातिचाररात्रिभोजनेषु उभयम् । पक्षमासचतुर्माससंवत्सरादिदोषादौ चोभयं भवति । मौनादिना विना लोचविधाने व्युत्सर्गः। उदरकृमिनिर्गमे व्युत्सर्गः। हिममसकादिमहावातादिसंह- २० तिचारे व्युत्सर्गः । आर्द्रभूम्युपरि गमने व्युत्सर्गः । हरिततृणोपरि गमने व्युत्सर्गः । कर्दमोपरि गमने व्युत्सर्गः । जानुमात्रजलप्रवेशे व्युत्सर्गः। परनिमित्तवस्तुनः स्वोपयोगविधाने व्युत्सर्गः। नावादिना नदोतरणे व्युत्सर्गः। पुस्तकपतने व्युत्सर्गः । प्रतिमापतनेव्युत्सर्गः । पश्चस्थावरविघातादृष्टदेशतनुमलविसर्गादिषु व्युत्सर्गः। पक्षादिप्रतिक्रमणक्रियान्ताख्यानप्रवृत्त्यन्तादिषु व्युत्सर्गः, एवमुच्चारप्रश्रवणादिषु च प्रसिद्धो व्युत्सर्गः । एवमुपवा- २५ सादिकरणं छेदकरणं परिहारकरणमुपस्थापनाकरणं सर्वमेतत्परमागमाद् वेदितव्यम् । नवविधप्रायश्चित्तफलं तावत् भावप्रासादनमनवस्थाया अभावः शल्यपरिहरणं धर्मदाढ्यादिकञ्च वेदितव्यम्। अथ विनयभेदानाह ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ १ वागादिषु प--आ०, द०, ज० । २ - तव्याख्या- आ०, द०, ज०। ३ एवं प्रायश्चितमुच्चार- ता० । ४-सर्ग एव ता० । ५-प्रसादनम् आ०, द०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy