SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तौ [९।२१-२२ अथेदानीमुक्तानां प्रायश्चित्तादीनां प्रकारसङ्ख्याप्रतिपादनार्थं सूत्रमिदमाहुः नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्रारध्यानात् ।। २१ ।। नव च चत्वारश्च दश च पञ्च च द्वौ च नवचतुर्दशद्वयस्ते भेदा येषां ध्यानात् प्राग्वर्तिनां प्रायश्चित्तादिव्युत्सर्गान्तानां ते नवचतुर्दशपञ्चविभेदाः यथाक्रमं यथासंख्य ५ पश्चानां भेदा भवन्तीत्यर्थः । तेन नवभेदं प्रायश्चित्तं चतुर्भेदो विनयः दशभेदं वैयावृत्त्यं पञ्चभेदः स्वाध्यायो विभेदो व्युत्सर्ग इति । ध्यानस्य तु बहुतरं वक्तव्यं वर्तते तेन तत्प्रबन्धो भिन्नः करिष्यते। अथेदानीं प्रायश्चित्तस्य नवानां भेदानां निर्भेदनार्थं सूत्रमिदमुच्यते स्वामिनाआलोचनप्रतिक्रमणत भयविवेकव्युत्सर्गतपश्छेद . परिहारोपस्थापनाः ॥ २२ ॥ आलोचनश्च प्रतिक्रमणञ्च तदुभयश्च विवेकश्च व्युत्सर्गश्च तपश्च छेदश्च परिहारश्च उपस्थापना च तास्तथोक्ताः । एकान्तनिषण्णाय प्रसन्नचेतसे विज्ञातदोषदेशकालाय गुरवे ताहशेन शिष्येण विनयसहितं यथा भवत्येवमवञ्चनशीलेन शिशुवत्सरलबुद्धिना आत्मप्रमादप्रका शनं निवेदनमाराधनाभगवतीकथितदशदोषरहितमालोचनमुच्यते । के ते दश दोषा इति १५ चेत् ? उच्यते ""आकंपिय अणुमाणिय जं दिळं बादरं च सुहुमं च । छण्णं सद्दाउलियं बहुजणमव्वत्ततस्सेवी ॥" [भ० आरा० गा० ५६२ ] अस्यायमर्थः-आकम्पितम्-उपकरणादिदानेन गुरोरनुकम्पामुत्पाद्य आलोचयति । १ । अनुमानितं वचनेनानुमान्य वा आलोचयति । २। यदृष्ट यल्लोकः दृष्ट तदेवालोचयति २० । ३ । बादरञ्च स्थूलमेवालोचयति । ४ । सुहुमं च सूक्ष्ममल्पमेव दोषमालोचयति । ५ । छण्णं केनचित् पुरुषेण निजदोषः प्रकाशितः, भगवन् , यादृशो दोषोऽनेन प्रकाशितस्तादृशो दोषो ममापि वर्तते इति प्रच्छन्नमालोचयति । ६। साउलियं शब्दाकुलितं यथा भवत्येवं यथा गुरुरपि न शृणोति तादृशकोलाहलमध्ये आलोचयति । ७ । बहुजनं बहून् जनान् प्रत्यालोच यति। ८ । अव्यक्तम् -अव्यक्तस्याप्रबुद्धस्याने आलोचयति । ९ । तत्सेवी यो गुरुस्तं दोषं सेवते २५ तदने आलोचयति ।१०। इदृग्विधमालोचनं यदि पुरुषमालोचयति तदा एको गुरुरेक आलोचकः पुमानिति पुरुषस्य द्वधाश्रयमालोचनम् । स्त्री चेदालोचयति तदा चन्द्रसूर्यदीपादिप्रकाशे एको गुरुः द्वे स्त्रियौ अथवा द्वौ गुरू एका स्त्री इत्येवं ख्यालोचनं ज्याश्रयं भवति । आलोचनरहितमालोचयतो वा प्रायश्चित्तमकुर्वतो महदपि तपोऽभिप्रेतफलप्रदं न भवति । निजदोषमुच्चार्योचार्य मिथ्या मे दुष्कृतमस्त्विति प्रकटीकृतप्रतिक्रियं प्रतिक्रमणमुच्यते । ३० प्रतिक्रमणं गुरुणानुज्ञातेन शिष्येणेव कर्तव्यम् । आलोचनां प्रदाय प्रतिक्रमणा आचार्येणेव । आकम्पितमनुमानितं यदृष्ट बादरञ्च सूक्ष्मञ्च । छन्नं शब्दाकुलितं बहुजनमव्यक्तं तत्सेवी । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy