SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९/२०] नवमोऽध्यायः ३०१ ___ अनशनञ्च अवमौदर्यश्च वृत्तिपरिसङ्ख्यानञ्च रसपरित्यागश्च विविक्तशय्यासनश्च कायक्लेशश्च अनशनावमौदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशाः । एते षट् संयमविशेषा बाह्य तपो भवति । तत्र तावदनशनस्य स्वरूपं निरूप्यते तदात्वफलमनपेक्ष्य संयमप्राप्तिनिमित्तं रागविध्वंसनार्थं कर्मणां चूर्णीकरणार्थं सद्ध्यानप्राप्त्यर्थ शास्त्राभ्यासार्थश्च यत् क्रियते उपवासस्तदनशनमुच्यते। संयमे सावधानार्थं वातपित्तश्लेष्मादिदोषो- ५ पशमनार्थ ज्ञानध्यानादिसुखसिद्धयर्थ यत्स्तोकं भुज्यते तदवमौदर्यम् । आशानिरासार्थमेकमन्दिरादिप्रवृत्तिविधानं तद्विषये सङ्कल्पविकल्पचिन्तानियन्त्रणं वृत्ते जनप्रवृत्तेः परि समन्तात् सङ्ख्यानं मर्यादागणनमिति यावद् वृत्तिपरिसङ्ख्यानमुच्यते। हृषीकमदनिग्रहनिमित्तं निद्राविजयार्थ स्वाध्यायादिसुखसिद्धयर्थं रसस्य वृध्यस्य घृतादेः परित्यागः परिहरणं रसपरित्यागः । विविक्तेषु शून्येषु गृहगुहागिरिकन्दरादिषु पाणिपीडारहितेषु शय्यासनं विविक्तशय्या- १० सनं पञ्चमं तपः । किमर्थम् ? आबाधाविरहार्थं ब्रह्मचर्यसिद्धयर्थं स्वाध्यायध्यानादिप्राप्त्यर्थं तद्विधातव्यम् । कायस्य क्लेशो दुःखं कायक्लेशः । उष्णौ आतपे स्थितिः वर्षौ तरुमूलनिवासित्वं शीतर्ती निवारणस्थाने शयनं नानाप्रकारप्रतिमास्थानश्चेत्येवमादिकः कायक्लेशः षष्ठं तपः किंकृते क्रियते ? शरीरदुःखसहनार्थ शरीरसुखानभिवाञ्छार्थ जिनधर्मप्रभावनाद्यर्थञ्च । यहच्छया समागतः परीषहः, स्वयमेव कृतः कायक्लेशः इति परीषहकायक्लेशयोर्विशेषः । यस्माद् १५ बाह्यवस्त्वपेक्षया अदः षट्प्रकारं तपो भवति परेषामध्यक्षेण च भवति तेनेदं तपो बाह्यमुच्यते। अथेदानीमाभ्यन्तरतपःप्रकारसूचनार्थं सूत्रमिदमुच्यते-- प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ प्रकृष्टो यः शुभावहो विधिर्यस्य साधुलोकस्य स प्रायः प्रकृष्टचारित्रः। प्रायस्य साधु- २० लोकस्य चित्तं यस्मिन् कर्मणि तत् प्रायश्चित्तमात्मशुद्धिकरं कर्म । अथवा प्रगतः प्रणष्टः अयः प्रायः अपराधस्तस्य चित्तं शुद्धिः प्रायश्चित्तम् । कारस्करादित्वात्सकारागमः। "प्राय इत्युच्यते लोकश्चित्तं तस्य मनो भवेत् । तस्य शुद्धिकरं कर्म प्रायश्चित्तं तदुच्यते ॥" [ ] प्रायश्चित्तञ्च विनयश्च वैयावृत्त्यञ्च स्वाध्यायश्च व्युत्सर्गश्च ध्यानञ्च प्रायश्चित्तविनयवैया- २५ वृत्त्यस्वाध्यायव्युत्सर्गध्यानानि एतानि षट् संयमस्थानानि उत्तरमभ्यन्तरं तपो भवति । अभ्यन्तरस्य मनसो नियमनार्थत्वात्तत्र प्रमादोत्पन्नदोषनिषेधनं प्रायश्चित्तम् । ज्येष्ठेषु मुनिषु आदरो विनय उच्यते । शरीरप्रवृत्त्या यात्रादिगमनेन द्रव्यान्तरेण वा यो ग्लानो मुनिस्तस्य पादमर्दनादिभिरारा धनं वैयावृत्त्यमुच्यते । ज्ञानभावनायामलसत्वपरिहारः स्वाध्याय उच्यते। इदं शरीरं मदीयमिति सङ्कल्पस्य परिहतिय॒त्सर्गः। मनोविभ्रमपरिहरणं ध्यानमुच्यते। ३० १-या तु षट्- भा०, द०, ज० । २-मध्यक्षणे च आ०, द०, ज० । ३-किरस्करा- ता० । १-राधना आ०,ज। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy