SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० तत्त्वार्थवृत्ती [९।१९ प्रोषधोपवासेत्यधिकारे प्रोक्तमेव । अपरेषां चतुणी लक्षणं कथयिष्यामः। तत्र सामायिक द्विप्रकारम्-परिमितकालमपरिमितकालञ्चेति । स्वाध्यायादौ सामायिकग्रहणं परिमितकालम् । ईर्यापथादावपरिमितकालं वेदितव्यम् । प्रमादेन कृतो योऽत्यर्थः प्रबन्धो हि हिंसादीनाम व्रतानामनुष्ठानं तस्य विलोपे सर्वथा परित्यागे सम्यगागमोक्तविधिना प्रतिक्रिया पुनव्रता५ रोपणं छेदोपस्थापना, छेदेन दिवसपक्षमासादिप्रव्रज्याहापनेनोपस्थापना व्रतारोपणं छेदोपस्था पना । सङ्कल्पविकल्पनिषेधो वा छेदोपस्थापना भवति । परिहरणं परिहारः प्राणिवधनिवृत्तिरित्यर्थः। परिहारेण विशिष्टा शुद्धिः कर्ममलकलङ्कप्रक्षालनं यस्मिन् चारित्रे तत्परिहारविशुद्धिः चारित्रमिति वा विग्रहः। तल्लक्षणं यथा-द्वात्रिंशद्वर्षजातस्य बहुकालतीर्थकर पादसेविनः प्रत्याख्याननामधेयनवमपूर्वप्रोक्तसम्यगाचारवेदिनः प्रमादरहितस्य अतिपुष्कल१० चर्यानुष्ठायिनस्तिस्रः सन्ध्या वर्जयित्वा द्विगन्यूतिगामिनो मुनेः परिहारविशुद्धिचारित्रं भवति । तथा चोक्तम् "बत्तीसवासजम्मो वासपुधत्तं च तित्थयरमूले । पच्चक्खाणं पढिदो संझूणदुगाऊअविहारो॥" [ ] त्रिवर्षादुपरि नववर्षाभ्यन्तरे वर्पपृथक्त्वमुच्यते। अतीव सूक्ष्मलोभो यस्मिन् चारित्रे तत् १५ सूक्ष्मसाम्परायं चारित्रम् । सर्वस्य मोहनीयस्योपशमः क्षयो वा वर्तते यस्मिन् तत् परमौदासीन्यल क्षणं जीवस्वभावदशं यथाख्यातचारित्रम् । यथा स्वभावः स्थितस्तथे वाख्यातः कथित आत्मनो यस्मिन् चारित्रे तद् यथाख्यातमिति निरुक्तेः । यथाख्यातस्य अथाख्यातमिति च द्वितीया संज्ञा वर्तते । तत्रायमर्थः-चिरन्तनचारित्रविधायिभिर्यदुत्कृष्टं चारित्रमाख्यातं कथितं तादृशं चारित्रं पूर्व जीवेन न प्राप्तम्, अथ अनन्तरं मोहक्षयोपशमाभ्यां तु प्राप्तं यच्चारित्रं तत् अथाख्यात२० मुच्यते । सामायिकाच्छेदोपस्थानाचारित्रं गुणैः प्रकृष्टं छेदोपस्थापनाचारित्रात् परिहारविशुद्धि चारित्रं गुणैः प्रकृष्टं परिहारविशुद्धिचारित्रात्सूक्ष्मसाम्परायचारित्रं गुणैः प्रकृष्टं सूक्ष्मसाम्परायचारित्रात् यथाख्यातचारित्रं गुणैः प्रकृष्टं तेन कारणेनोत्तरगुणप्रकर्षज्ञापनार्थं सामायिकादीनामनुक्रमेण वचनम् । अथ संवरस्य निर्जरायाश्च हेतुभूतस्य तपसः स्वरूपनिरूपणार्थं प्रबन्धो रच्यते । तत्तपो २५ द्विप्रकारम्-बाह्यमाभ्यन्तरञ्च । तत्र बाह्यं षट्प्रकारमाभ्यन्तरश्च षटप्रकारम् । तत्र बाह्यषट्प्रकारस्य तपसः सूचनार्थ सूत्रमिदमुच्यते भगवद्भिःअनशनावमौदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासन कायक्लेशा बाह्यं तपः ॥ १९ ॥ १ परेषाम् आ०, द०, ब० ॥ २ कर्मफल- आ०, २०, ज० । ३ “तीसं वासो जम्मे बासपुधत्तं च तित्थयरमूले । पञ्चक्खाणं पढिदो संझूणदुगाऊयविहारो ।।" -गो० जी० गा० ४७२ । त्रिंशद्वर्षजन्मा वर्षपृथक्त्वं खलु तीर्थकरमूले । प्रत्याख्यानं पठितः संध्योनद्विगव्यूतिविहारः ।। ४ तथैव ख्यातः भा., द०, ज० ।५ सूच्यते ता०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy