________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९।१७-१८] नवमोऽध्यायः
२९९ वेदनीये शेषाः ।। १६ ॥ वेदनीये कर्मणि सति शिष्यन्ते ध्रियन्ते इति शेषा एकादश परीपहा भवन्ति "ज्ञानावरणे प्रज्ञाज्ञाने" [त० सू० ९ । १३ ] इति द्वौ परीषहावुक्तौ । “दर्शनमोहान्तराययोरदर्शनालाभौ" [त० सू० ९।१४ ] इति च द्वाबुक्तौ । “चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपरस्काराः" [त० सू० ९।१५ ] इति सप्त परीषहाः सम्भाविताः, एवं सूत्रत्रयेण समुदिता एकादशोक्तास्तेभ्यो ये उद्धरितास्ते शेषा इत्युच्यन्ते । ते के क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलसंज्ञका एकादश परीषहाः वेदनीये भवन्ति जिने योजिता इत्यर्थः।
अथ पूर्वोक्ताः परीषहा एकस्मिन् पुरुषे युगपत् कति भवन्तीति प्रश्ने सूत्रमिदमुच्यते स्वामिना
एकादयो भाज्या युगपदेकस्मिन्नेकान्नविंशति': (तेः) ॥१७॥
एक आदिर्येषां ते एकादयः । कस्मिंश्चिदात्मनि एकः परीषहो कस्मिंश्चिद् द्वौ कस्मिश्चित्त्रयः इत्यादिकृत्वा एकोनविंशतिपर्यन्तमेकस्मिन्नात्मनि युगपत् समकालं भवन्तीति भाज्याः यथासम्भवं योजनीयाः। अत्र आ एकान्नविंशतिरिति शब्दो वर्तते स तु आङ अभिविध्यर्थः। अभिविधिरिति कोऽर्थः ? अभिव्याप्तिः। एकोनविंशतिमभिव्याप्येत्यर्थः । कथम् ? शीतोष्ण- १५ परीषहयोर्मध्ये अन्यतरो भवति शीतमुष्णो वा। शय्यापरीषहे सति निषद्याचर्ये न भवतः, निषद्यापरीषहे शय्याचर्ये द्वौ न भवतः, चर्यापरीषहे शय्यानिषद्ये द्वौ न भवतः। इति त्रयाणामसम्भवे एकान्नविंशतिरेकस्मिन् युगपद् भवति। ननु प्रज्ञाज्ञाने परस्परविरुद्ध तत्राप्येकस्य हानिः कथं न भवति ? साधूक्तं भवता; श्रुतज्ञानापेक्षया प्रज्ञामद उत्पद्यते अवधिमनःपर्ययकेवलज्ञानापेक्षया अज्ञानपरीषहोऽपि भवतीति को विरोधः।
अथ गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयलक्षणाः पञ्च संवरहेतव उक्ताः । इदानीं चारित्रं संवरहेतुर्वक्तव्यस्त दपरिज्ञानार्थ योगोऽयमुद्यतेसामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्प
राययथाख्यातमिति चारित्रम् ॥१८॥ सामायिकञ्च छेदोपस्थापना च परिहारविशुद्धिश्च सूक्ष्मसाम्परायश्च यथाख्यातञ्च २५ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्परायथाख्यातम् । समाहारो द्वन्द्वः । एतत्सामायिकादिकं पञ्चकं चारित्रं भवतीति वेदितव्यम् । इति शब्दः समाप्त्यर्थे वर्तते तेन यथाख्यातेन चारित्रेण परिपूर्णः कर्मक्षयो भवतीति ज्ञातव्यम् । यद्यपि दशलाक्षणिके धर्मे यः संयम उक्तः स चारित्रमेव तथाप्यत्र पर्यन्ते चारित्रनिरूपणं साक्षात्परमनिर्वाणकारणं चारित्रं भवतीति ज्ञापनार्थ वेदितव्यम् । तत्र सामायिकस्य लक्षणं दिग्देशानर्थदण्डविरतिसामायिक- ३०
१ एकोनविंशतिः आ०, द०, ज०।
For Private And Personal Use Only