SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ तत्त्वार्थवृत्तौ [ ९।१३-१५ स्थानं केवलं न गृहीतव्यं किन्त्वर्थबलेन प्रमत्तसंयताप्रमत्तसंयतापूर्वकरणानिवृत्तिकरणगुणस्थानचतुष्टयं ग्राह्यं तेषु सर्वे परीषहाः सङ्गच्छन्ते अक्षीणाशयदोषत्वात् । तथा च सामायिकचारित्रे छेदोपस्थापनायाञ्च परिहारविशुद्धिसंयमे च त्रिषु चारित्रेषु सर्वे परीषहाः प्रत्येकं सम्भवन्ति पारिशेषात्। ५ अथ ज्ञातमेतत् परीपहाणां गुणास्थानदानम् । कस्याः प्रकृतेः के परीषहाः कर्तव्या भवन्तीति न ज्ञायते इति प्रश्ने सूत्रमिदमुच्यते-- ज्ञानावरणे प्रज्ञाज्ञाने ॥१३॥ ज्ञानस्यावरणं यस्य मुनेः स ज्ञानावरणस्तस्मिन् ज्ञानावरणे । अथवा ज्ञानस्यावरणं ज्ञानावरणं तस्मिन् ज्ञानावरणे कर्मणि सति प्रज्ञा च अज्ञानञ्च प्रज्ञाशाने द्वौ परीषहौ भवतः । १० ननु ज्ञानावरणे सति अज्ञानपरीषहो भवतीति युक्तमेव, परमिदं न युक्तम्, प्रज्ञापरीषहो ज्ञाना वरणविनाशे खलु जायते, ज्ञानमदो भवति, स प्रज्ञापरीषहो ज्ञानावरणे सति कथमुत्पद्यते ? साधूक्तं भवता; प्रज्ञा हि क्षायोपशमिकी वर्तते तेन प्रज्ञामदो मतिश्रुतावरणक्षयोपशमे सति सञ्जायते अवधिमनःपर्ययकेवलज्ञानावरणे सति प्रज्ञा मदं जनयत्येव सर्वावरणक्षये तु मदो नोत्पद्यते। १५ अथापरयोः प्रकृत्योः सद्भावे अपरपरीषहद्वयसूचनार्थ सूत्रमुच्यते दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ दर्शनमोहश्च अन्तरायश्च दर्शनमोहान्तरायौ तयोर्दर्शनमोहान्तराययोः, अदर्शनश्च अलाभश्चादर्शनालाभौ । दर्शनमोहे कर्मणि सति अदर्शनपरीषहो भवति अन्तराये कर्मणि लाभान्तराये कर्मणि सति अलाभपरीषहो भवत्येवं यथाक्रमं ज्ञातव्यम् । २० अथ मोहनीयं कर्म द्विप्रकारं वर्तते दर्शनमोहश्चारित्रमोहश्चेति । तत्र दर्शनमोहे अदर्शनपरीषहो भवद्भिरुक्तश्चारित्रमोहे कति परीषहाः भवन्तीत्यनुयोगे सति सूत्रमिदमुच्यतेचारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कार पुरस्काराः ॥ १५ ॥ नग्नस्य भावो नाग्न्यम्, न रतिररतिः, स्तृणाति आच्छादयति परगुणान् निजदोषान् २५ इति स्त्री, निषीदन्त्युपविशन्ति यस्यां सा निषद्या , आक्रोशनमाक्रोशः, याचतिर्याचना, नाग्न्यञ्च अरतिश्च स्त्री च निषद्या च आक्रोशश्च याचना च सत्कारपुरस्कारश्च नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः । चारित्रमोहे कर्मणि उदिते सति एते सप्त परीपहाः पुंवेदोदयादिनिमित्ता भवन्तीति वेदितव्यम् । मोहोदये सति प्राणिपीडा भवति प्राणिपीडापरिहारार्थं निषद्या परीषह उत्पद्यते इति वेदितव्यम् । ३० अथापरपरीषहनिमित्तकर्मविशेषपरिज्ञानार्थ सूत्रमिदमुच्यते For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy