________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९७
१५
९।१२]
नवमोऽध्यायः वेदनीयाश्रयास्ते ' उपचर्यन्ते । ते के ? क्षुपिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलसंज्ञका एकादश । ननु मोहनीयोदयसहायभावाभावात् क्षुत्पिपासादिवेदनाऽभावे कथमेते उत्पद्यन्ते ? साधूक्तं भवता वेदनाया अभावेऽपि वेदनाद्रव्यकर्मसद्भावो वर्तते तदपेक्षया परीषहोपचारो विधीयते । कथमिति चेत् ? निश्शेषज्ञानावरणकर्मणि नष्टे सति करणक्रमव्यवधानरहितसमस्तवस्तुप्रद्योतकसकलविमलकेवलज्ञाने विद्यमाने भगवति चिन्तानिरोधलक्षणं ५ ध्यानं यद्यपि न वर्तते तथापि चिन्ताकार्यकर्माभावफलापेक्षया ध्यानं भगवति यथोपचर्यते तथा परीषहा अपि उपचारमात्रेण दीयन्ते, अन्यथा वेदनासद्भावे कवलाहारस्यापि प्रसङ्गः सञ्जायते । तेन बुभुक्षादिलक्षणो वेदनोदयो भगवति न वर्तते कथं कवलाहारः स्यात् ? तथा चोक्तमा
"न भुक्तिः क्षीणमोहस्य तवानन्तसुखोदयात् । क्षुत्क्लेशबाधितो जन्तुः कवलाहार ग्भवेत् ॥ असवद्योदयाद् भुक्तिं त्वयि यो योजयेदधीः । मोहानिलप्रतीकारे तस्यान्वेष्यं जरद्धृतम् ॥ असāद्यविषं घातिविध्वंसध्वस्तशक्तिकम् । त्वय्यकिश्चिरं (त्करं ) मन्त्रशक्तये वापवनं (बलं) विषम् ॥ असवेद्योदयो घातिसहकारिव्यपायतः । त्वय्यकिश्चित्करो नाथ सामग्या हि फलोदयः ॥" [आदिपु० २५।३९-४२] पञ्चविंशतितमे पर्वणि श्लोकचतुष्टयमिदम् ।
अथवा "साध्याहाराणि वाक्यानि भवन्ति" [ ] इति वचनादत्र सूत्रे सोपस्कारतया व्याख्यानं क्रियते । एकादशजिने 'न सन्ति' इति वर्णवयं मक्षिप्यते । तेनायमर्थ २० उत्पद्यते-जिने केवलिनि एकादश क्षुदादयः परीषहा न सन्ति न वर्तन्ते। अथवा “एकेन अधिकान दश परिषहा जिने,एकादश जिने" इति व्याख्यानन्तु प्रमेयकमलमार्तण्डे [पृ० ३०७] वर्तते।
अथ सूक्ष्मसाम्परायादिषु गुणस्थानेषु व्यस्ताः परीषहा योजिता भवद्भिः । करिमश्चिद्गुणस्थाने समस्ता अपि वर्तन्ते इति प्रश्नसद्भावे सूत्रमाहुराचायो:
२५ चादरसाम्पराये सर्वे ॥१२॥ बादरः स्थूलः साम्परायः कषायो यस्मिन् गुणस्थाने सबादरसाम्परायः तद्योगान्मुनिरपि बादरसाम्परायस्तस्मिन् सर्वे परीपहा भवन्ति । अस्यायमर्थः-बादरसाम्पराय इत्युक्ते नवममेव गुण
१ तदुपचर्यन्ते ता०। २ -वापवं विषम् ता० । अपबलम्- अपशतशक्तिकमित्यर्थः । ३ सामग्र्यादिफलो- आ०, ९०, ज०। ४ संक्षिप्यते आ०, द., ज०।
३८
For Private And Personal Use Only