________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६ तत्त्वार्थवृत्ती
[९।१०-११ रित्रान्तरमुद्दिश्य भाज्याः भवन्ति योजनीयाः स्युरित्यर्थः। तत्र सूक्ष्मसाम्परायच्छद्मस्थवीत रागयोः कति भवन्तीति प्रश्ने सूत्रमिदमुच्यते
सूक्ष्मसाम्परायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥
सूक्ष्मसाम्परायो दशमगुणस्थानवर्ती मुनिः। केवलज्ञानकेवलदर्शनावरणद्वयं छद्मशब्दे५ नोच्यते । छद्मनि तिष्ठतीति छद्मस्थः। छमस्थश्चासौ वीतरागः छद्मस्थवीतरागः अन्त
मुहूर्तेन समुत्पत्स्यमानकेवलज्ञानः, क्षीणकषायो ( ये ) द्वादशे गुणस्थाने वर्तमानः साधुः छद्मस्थवीतराग इत्युच्यते, वीतरागच्छमस्थश्चोच्यते । सूक्ष्मसाम्परायश्च छद्मस्थवीतरागश्च सूक्ष्मसाम्परायच्छद्मस्थवीतरागौ तयोः सूक्ष्मसाम्परायछमस्थवीतरागयोः । अधिकरणे सप्तमी
द्विवचनम् । तेगयमर्थः-सूक्ष्मसाम्पराये मुनौ छद्मस्थवीतरागे च साधौ चतुर्दशपरीषहा १० भवन्ति । के ते चतुर्दश परीषहाः सम्भवन्ति ? क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधाला
भरोगतृणस्पर्शमलप्रज्ञाज्ञानानीति चतुर्दशेति निर्धारणादपरे परीषहा न भवन्तीति ज्ञातव्यम् । ननु छद्मस्थवीतरागे मोहनीयस्य कर्मणोऽभावो वर्तते तेन मोहनीयकृताष्टपरीपहा नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्कारादर्शनलक्षणा न भवन्तीति युक्तमेव, सूक्ष्मसा
म्पराये तु मोहनीयोदयो वर्तते तत्सद्भावात् तत्सम्बन्धिनोऽप्यष्टापि परीषहाः कथं न भवन्तीति १५ चतुर्दशैव भवन्तीति कथमुच्यते ? साधूक्तं भवता; सूक्ष्मसाम्पराये सर्व एव मोहोदयो न
वर्तते । किन्तर्हि ? सज्वलनलोभकषायोदयोऽस्ति । सोऽपि बादरो न वर्तते किन्त्वतिसूक्ष्मो वर्तते तेन सूक्ष्मसाम्परायोऽपि वीतरागछमस्थसदृशो वर्तते तेन तस्मिन्नपि चतुर्दशपरीपहा भवन्तीति घटते। ननु छमस्थवीतरागे मोहोदयस्याभावो वर्तते सूक्ष्मसाम्पराये च तस्य
मोहोदयस्य मन्दत्वमस्ति तेन द्वयोरपि क्षुपिपासादीनाञ्चतुर्दशानामपि परीषहानामभावो वर्तते २० तत्सहनं कथमुच्यते भवद्भिरिति ? आह–साधूक्तं भवता; यद्यपि अनयोश्चतुर्दशपरीषहा न
वर्तन्त एव तथापि तत्सहनशक्तिमात्रं वर्तते तेन तयोस्ते दीयन्ते, यथा सर्वार्थसिद्धिदेवानां महातमःप्रभापृथ्वीगमनं यद्यपि न वर्तते तथापि तद्गमनशक्तित्वात्तेषां तद्गतिरुपयुज्यते ।
अथाह कश्चित्--शरीरयुक्तात्मनि परिषहसहनं प्रतिज्ञातं भवद्भिः घातिसङ्घातघातने समुत्पन्नकेवलज्ञानेऽघातिकर्मचतुष्कफलानुभवनपरिचरति भगवति सयोगिजिने शरीरवति २५ कियन्तः परीषहा उत्पद्यन्त इति पर्यनुयोगे तत्परीषहकथनार्थं सूत्रमिदमुच्यते
एकादश जिने ॥ ११॥ एकेनाधिका दश एकादश । शाकपार्थिवादिदर्शनाधिकशब्दलोपः । यथा शाकप्रियः पार्थिवः शाकपार्थिवः प्रियशब्दो लुप्यते तथात्राधिकशब्दलोपः। अथवा एकश्च दश च एकादश हस्वस्य दीर्घता । एकादशपरीषहाः जिने जितघातिकर्मणि भगवति भवन्ति वेदनीयकर्मसद्भावात्,
१-मुच्यते भवद्भिरित्याह सा- आ०। २ घातिसंघातने सत्युत्प- ता०। ३ कियन्तः कियन्तः परी- आ०, द०।
For Private And Personal Use Only