________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९।९]
नवमोऽध्यायः भानुसजनितपरितापसमुत्पन्नप्रस्वेदवशमरुदानीतपांशुनिचयोऽपि किलासकच्छ्रदद् कण्डूयादिके विकारे समुत्पन्नेऽपि सङ्घट्टनप्रमर्दनकण्ड्यनादिकं तदुत्पन्नजन्तुपीडापरिहारार्थं न करोति, ममाङ्गे मलं वर्तते अस्य भिक्षोरङ्गे कीदृशं नैर्मल्यं वर्तत इति सङ्कल्पनं न करोति, अवगमचरित्रपूतपानीयप्रधावनेन कर्ममलकर्दमापनयनार्थ च सदैवोद्यतमतिर्भवति केशलोचासंस्कारखेदं न गणयति स मुनिर्मलपरीषहसहनशीलो भवति । १८ । यो मुनिः ५ पूजनप्रशंसनात्मके सत्कारे क्रियारम्भायग्रतःकरणामन्त्रणालक्षणे पुरस्कारे केनाप्यविहिते सति एवं मनसि न करोति यदहं चिरतरतपस्वी महातपोऽनुष्ठाता च स्वसमयपरसमयनिर्णयविधायकः अनेकवारपरवादिविजयी ईदृशस्यापि मम न कश्चित् प्रणामं करोति न कोपि भक्तिं विदधाति नापि सम्भ्रम सृजति नाप्यासनादिप्रदानं विधत्ते, वरं मिथ्यादृष्टयो येऽल्पशास्त्रज्ञमपि निजपक्षीयं तपस्विनं गृहस्थं चातीवभक्तिमन्तः सकलज्ञसम्भावनेन सम्मानयन्ति, १० निजसमयप्रभावनार्थं नैते तत्त्वज्ञानपरा अपि परमार्हताः, वरं व्यन्तरादयः किल पूर्वमतितीव्रतपसा झटिति चर्चनं कुर्वन्तीति श्रुतिर्मिथ्या वर्तते, यदि न मिथ्या तर्हि मादृशानां तपस्विनां पूजादिकं व्यन्तरादयः किमिति न कुर्वन्तीति दुर्ध्यानपरो न भवति स मुनिः सत्कारपुरस्कारपरीषहसहनशीलो भवति । १९ । यो मुनिस्तर्कव्याकरणच्छन्दोलकारसारसाहित्याध्यात्मशास्त्रादिनिधानाङ्गपूर्वप्रकीर्णकनिपुणोऽपि सन् ज्ञानमदं न करोति, ममाग्रतः प्रवादिनः सिंह- १५ शब्दश्रवणात् वनगजा इव पलायन्ते भास्करप्रभायां ज्योतिरिङ्गणा इव न प्रभासन्ते इति च मदं नाधत्ते स मुनिः प्रज्ञापरीषहविजयी भवति । २० । यो मुनिः सकलशास्त्रार्थसुवर्णपरीक्षाकषपट्टस मानधिषणोऽपि मूर्खरसहिष्णुभिर्वा मूर्योऽयं बलीवर्द इत्याद्यवक्षेपवचनमाप्यमानोऽपि सहते, अत्युत्कृष्टदुश्चरतपोविधानञ्च विधत्ते, सदा अप्रमत्तचेताश्च सन् ब्रह्मवर्चसं नापेक्षते स मुनिरज्ञानपरीषहजयं लभते । २१ । यो मुनिरत्युत्कृष्टवैराग्यभावनाविशुद्धान्तरङ्गो भवति, विज्ञात- २० समस्तवस्तुतत्त्वश्च स्यात् , जिनायतनत्रिविधसाधुजिनधर्मपूजनसम्माननतन्निष्ठो भति,चिरदीक्षितोऽपि सन्नेवं न चिन्तयति अद्यापि ममातिशयवद्बोधनं न सजायते उत्कृष्टश्रुतव्रतादिविधायिनां किल प्रातिहार्यविशेषाः प्रादुर्भवन्ति, इति श्रुतिमिथ्या वर्तते दीक्षेयं निष्फला प्रतधारणश्च फल्गु एव वर्तते इति सम्यग्दर्शनविशुद्धिसन्निधानादेवं न मनसि करोति तस्य मुनेरदर्शनपरीषहजयो भवतीत्यवसानीयम् । २२ । इत्थं सङ्कल्पप्राप्तान परीषहान् संल्किष्ट- २, चेताः क्षममाणः रागद्वेषमोहादिपरिणामोत्पन्नास्रवनिरोधे सति महान्तं संवर लभते ।
अथामी परिषहाः भवारण्यमतिक्रमितुमुद्यतस्य मुनेः किं सर्वे भवन्ति आहोस्वित् किमस्ति कश्चिद् विशेषः इति प्रश्ने सति उत्तरं दीयते । एते पूर्वोक्तलक्षणद्वाविंशतिपरीषहाश्चा
१ -सहशीलो ता० । २ वातीव- आ०, द०, ज० । ३ -लङ्कारसाहि- आ०, द०, ज०। ४ -पदसमानाधिकरणोऽपि ज० । पदज्ञानाधि- द०
For Private And Personal Use Only