SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९३ ९।९] नवमोऽध्यायः परमकारुणिको भवति, दृष्टश्रुतानुभूतभोगस्मरणभोग 'कथाकर्णनविषमेषुशरप्रवेशनिच्छिद्रहृदयो भवति तस्य मुनेररतिपरीषहविजयो वेदितव्यः। ७ । यो 'मुनिः रमणशीलेषु स्थानेषु आरामेषु गृहादिषु तेषु च स्थानेषु अभिनवतारुण्यविलासः मधुपानमदचपललोचनैः पीडयन्तीषु स्त्रीषु विद्यमानास्वपि कच्छपवत् संवृतान्तःकरणकरणोऽतिमनोहरेषद्धसनकोमलालापविलासविभ्रमसमीक्षणवर्करविधान मदमन्थरगतिकामेषुष्यापारनिरर्थीकरणचारित्रो ५ भवति, नेत्रवक्त्रभ्रविकारशृङ्गाराकाररूपसहेलाविज़म्भितपीनोन्नतस्तनजघनोरुमूलकक्षानाभिनिरीक्षणादिभिरनुपद्रुतचित्तो भवति तस्य मुनेः स्त्रीपरीषहविजयो" भवति । ८। यो मुनिः चिरकालसेवितगुरुकुलब्रह्मचर्यो भवति, बन्धमोक्षपदार्थमर्म जानाति, संयमायतनयतिजनविनयभक्त्यर्थं गुरुजनेनानुज्ञातो देशान्तरं गच्छति, नभस्वानिव निस्सङ्गो भवति, उपवाससामिभोजनगृहवस्तुसङ्ख्याघृतादिरसपरिहरणादिकायक्लेशसहनशीलकायो भवति, १० देशकालानुसारेण संयमाविरोधिगमनं करोति, चरणावरणरहितः कठिनशर्करोपलकण्टकमृत्खण्डपीडनसजातपादबाधोऽपि बाधा न मन्यते, गृहस्थावस्थोचितवाहनयानादिकानां न स्मरति, कालानुसारेण षडावश्यकानां परिहाणिं न करोति तस्य मुनेश्चर्यापरीषहजयो वेदितव्यः । ९ । यो मुनिः पितृवनशून्यागारपर्वतगुहागह्वरादिषु पूर्वानभ्यस्तेषु निवासं करोति, भास्करनिजेन्द्रियज्ञानोद्योतपरीक्षितप्रदेशे क्रियाकाण्डकरणार्थ नियतकालां निषद्यामा- १५ श्रयति, तत्र च दूरक्षहर्यक्षतरक्षुद्वीपिगजादि नानाभयानकपाकसत्त्वशब्दश्रवणादिनापि निर्भयो भवति, देवतिर्यग्मनुष्याचेतनकृतोपसर्गान् यथासम्भवं सहमानोऽपि वीरासनकुक्कुटासनादिषु अविघटमानशरीरो भवति, मोक्षमार्गान्न प्रच्यवते, मन्त्रविद्यादिप्रतीकारं न करोति, पूर्वोक्तदुष्टश्वापदबाधाञ्च सहते तस्य मुनेनिषद्यापरीषहजयो भवति । १० । यो मुनि नानुशीलनध्यानविधानमार्गगमनादिखेदवान् भवति, मुहूर्तमेकं निद्रानुभवनार्थमुच्चावचपरुषभूमिषु २० भूरिशर्करोपलकपालसङ्कटेषु शीतोष्णेषु स्थानकेषु शय्यां करोति, एकपार्वे दण्डवत् पतित्वा जन्तुपीडां परिहरन् काष्ठवन् मृतकवत् पार्श्वमपरिवर्तमानः शेते, ज्ञानभावनानुरञ्जितचेताः भूतप्रेतादिविहितनानोपसर्गोऽपि अचलिताङ्गोऽअमितकाल (लं) तद्विहितबाधां क्षमते, शार्दूलादिमानयं प्रदेशोऽचिरादस्मात् पलायनं श्रेयस्कर विभावयन्तः कदा भविष्यतीत्यविहितखेदः शय्यापरीषहजयं लभते । ११ । यो मुनिर्मिथ्यादर्शनोद्धततीव्रक्रोधसहितानामज्ञानिजनानाम- २५ वज्ञानं निन्दामसभ्यवचनानि च लम्भितोऽपि शृण्वन्नपि क्रुधग्निज्वाला न प्रकटयति, आक्रोशेषु अकृतचेतास्तत्प्रतीकारं विधातुं शीघ्नं शक्नुवन्नपि निजपापकर्मोदयं परिचिन्तयन् तद्वाक्यान्यश्रुत्वा तपोभावनापरान्तरङ्गो निजहृदये कषायविषमविषकणिकामपि न करोति स मुनिराक्रोशपरीषहविजयी भवित । १२ । यो मुनिर्निशातशस्त्रमुषंढिमुद्गरमुशलकुन्तगो: १ -कथावर्णन आ०, द०, ज० । २ मुनिरषडक्षीणेषु स्था-ता०। ३ - करणः आc, द०,ज० । ४ -धानपदम- आ०, द०, ज०। ५-यो वेदितव्या ता० । ६ कठिनकर्करोपलमा०, द०, ज० । ७ -दिना भया- आ०, द० ज०' For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy