SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ तत्त्वार्थवृत्ती [ ९९ रसहीनभोजनञ्च 'विधत्ते, तेन च शीघ्रमेव परिशुष्यच्छरीरो भवति । किंवत् ? तप्ताम्बरीषनिपतितकतिपयाम्बुबिन्दुवत् । समुद्भूतबुभुक्षावेदनोऽपि सहनशीलः सन् पुरुषो यो भिक्षालाभादलाभं बहुगुणं मन्यते, 'क्षुधाबाधां प्रति चिन्तां न कुरुते, तस्य क्षुत्परोषहविजयो वेदितव्यः ।। यो मुनिन्दीतडागवापीप्रमुखजलमजनजलावगाहनजलपरिषेचनपरित्यागी ५ भवति, अनियतोपवेशनस्थाना (नोऽ) नियतवसतिश्च भवति । किंवत् ? पक्षिवत् । अतिक्षा रातिस्निग्धातिरूक्षातिविरुद्धभोजने सति ग्रीष्मत्वातपदाहज्वरोपवासादिभिः कायेन्द्रियोन्माथिनीं समुद्भूतां तृषं न प्रतिचिकीर्षति, तृड्वह्निज्वालां सन्तोषेणाभिनव मृदुनिपपूर्ण शिशिरसुरभिपानीयेन यः प्रशमयति स पिपासापरीषहविजयं लभते ।२। यो मुनिः परिहतपञ्चवस्त्रो भवति अनियतावासश्च भवति । किंवत् ? पक्षिवत् । वृक्षमूले चतुष्पथे पर्वताने वर्षादित्रिषु १० कालेषु तिष्ठति, भूझावातसम्पातं महद्धिम मातपञ्च सहते, तत्प्रतीकार प्राप्तिव्यपगतकाङ्क्षो भवति, पूर्वानुभूतपावकादिशीतप्रतीकारहेतुभूतद्रव्याणां नाध्येति, सम्यग्ज्ञानभावनागर्भगृहे यो वसति तस्य शीतपरीषहविजयो वेदितव्यः । ३ । यो मुनिर्निर्मरुति निरम्भसि तपतपनरश्मिपरिशुष्कनिपतितच्छदरहितच्छायवृक्षे विपिनान्तरे स्वेच्छया स्थितो भवति, असाध्यपि तोत्पादितान्तर्दाहश्च भवति, दावानलदाहपरुषमारुतागमनसञ्जनितकण्ठकाकुदसंशोषश्च १५ भवति, उष्णप्रतीकारहेतुभूतबह्वनुभूत चूतपानकादिकस्य न स्मरति, जन्तुपीडापरिहृतिसावधान मनाश्च यो भवति तस्योष्णपरीषहजयो भवति, पवित्रचारित्ररक्षणं भवति । ४ । दंशग्रहणेन सिद्धं मशकग्रहणं किमर्थम् ? उपलक्षणार्थम् । यथा काकेभ्यो घृतं रक्षणीयम् कथं श्वमार्जारादिभ्यो न रक्षणीयं रक्षणीयमेव तथा दंशमशकोपद्रवं यो मुनिः सहते सः पिशुकपुत्तिकापिपीलिकाकीट मक्षिकामत्कुणवृश्चिकाद्युपद्रवमपि सहते इत्यर्थः । परं तेषां २० स्वयं बाधां न कुरुते केवलं मुक्तिलाभसङ्कल्पमात्रं वस्त्रं परिदधाति तस्य मुनेदंशमशकपरीषह विजयो भवति । ५। नाग्न्यं नाम जात्यसुवर्णवदकलङ्क परं विषयिभिरशक्तकैः शेफविकारवद्भिश्च धर्तुं न शक्यते । तद्धरतां परप्रार्थनं न भवति । नान्यं हि नाम याचनावनजन्तुघातादिदोषरहितमपरिग्रहत्वात् मुक्तिप्रापणाद्वितीयकारणं परेषां बाधाया अकारकम् । यो मुनिस्तन्नाम्न्यं बिभर्ति तस्य मनसि विकृति!त्पद्यते, स्त्रीरूपमतीवापवित्रं मृतक रूपसमानम२५ हर्निशं भावयति । ब्रह्मचर्य्यमक्षुण्णं तस्य भवति । एवमचेलबतधारणं नाग्न्यं निष्पापं ज्ञातव्यम् । ६ । यो मुनिः हृषीकविषयेषु निरुद्यमो भवति, सङ्गीतादिरहितशून्यगृहदेवमन्दिरवृक्षकोटरशिलाकन्दरादिषु वसति, स्वाध्यायध्यानभावनासु रतिं करोति, सर्वप्राणिषु सर्वदा १ विद्यते भा०,द०, ज० । २ क्षुधो बाधाम् ता० । ३ मृदुना पूर्ण-आ०,द०,ज० । ४ वर्षादिषु त्रिषु आ०, द०, ज० । ५ -मतापञ्च ता० । ६ -प्राप्त व्य-- आ०, द०, ज० । ७-पूतपाता०, आ०, ज० । ८ कथञ्च मार्जारादि- आ०, द०, ज० । ९ न रक्षणीयमेव ता० । १० -मशकामक्षुणवृ- ता० । ११ शोकवि-बा, द०, ज०। १२ -रूपकस-- आ०, द०, ज० | For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy