________________
Shri Mahavir Jain Aradhana Kendra
९/८-९ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमोऽध्यायः
एता द्वादश भावना विरचिता वैराग्यसंवृद्धये
विद्यानन्दिभुवाऽनुरागवशतो धर्मस्य धीमच्छ्रिये । दोषज्ञश्रुतसागरेण विदुषां दोषौघविच्छित्तये
येऽन्तः सम्यगनुस्मरन्ति मुनयो नित्यं पदं यान्ति ते ॥
अथ परीषहसहनफलप्रदर्शनेनोत्साहनार्थं सूत्रमिदमाहुः -
मार्गाच्यवननिर्जराधे परिषोढव्याः परिषहाः ॥ ८॥
२९१
मार्गात् संवरणलक्षणादच्यवनमप्रच्युतिरस्खलनमिति यावत् मार्गाच्यवनम् । निर्जरा : कर्मणां गलनं पतनं शटनमेकदेशेन क्षयकरणमित्यर्थः । मार्गाच्यवनं निर्जरा च मार्गाच्यवननिर्जं रे तयोरर्थः प्रयोजनं यस्मिन् परीषहसहनकर्मणि तत् मार्गाच्यवननिर्जरार्थम् । परिषोढव्याः परि समन्तात् सहनीया मर्षणीयाः क्षमितव्या इत्यर्थः । ते के ? परीषहाः । १० वक्ष्यमाणलक्षणोपलक्षिताः क्षुधादयो द्वाविंशतिः । अथवा मार्गः सम्यग्दर्शनज्ञानचारित्रणि तस्मादच्यवनं तदनुशीलनं तदभ्यसनम्, तदर्थं निर्जरार्थच्च परीषहाः पोढव्याः । तेषां सहनेन कर्मणामागमनद्वाराणि पिहितानि भवन्ति । तच्च संवर एव कथ्यते । औपक्रमिकं कर्म्मणां फलं भुब्जाना मुनयो निर्जीणकर्माणच क्रमान्मोक्षं लभन्ते । तेनायमर्थ:-संवरनिर्जरामोक्षाणां साधनं परीषहसहनमित्यर्थः ।
1
अथ परीषहस्वरूपं परीषहसङ्ख्याश्च परिज्ञापयितुं सूत्रमिदमाहुःतृपिपासाशीतोष्णदंशमशकनाग्न्यार तिस्त्रीश्चर्यानिषयाशय्याको शवधयाचनाऽलाभरोगतृ एस्पर्शमल सत्कार पुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥ ९ ॥
१ शैशर्यम् आ०, द० ज० । २ उष्णञ्च परितापलक्षणम् आ० द० ज० ।
"
For Private And Personal Use Only
५.
क्षु बुभुक्षा, पिपासा च उदकादिपानेच्छा, शीतच 'शैशिर्यम् उष्णश्च परिताप- २० लक्षणः, दंशमशकाश्च वनमक्षिकाः क्षुद्रजन्तुविशेषाः, नग्नस्य भावः कर्म वा नाग्न्यम्, नान्यच अरतिश्च स्त्री च चर्या च निषद्या च शय्या च आक्रोशश्च वधश्च याचना च अलाभश्व रोगश्च तृणस्पर्शश्च मलश्च सत्कारपुरस्कारश्च प्रज्ञा च अज्ञानञ्च अदर्शनञ्च तानि तथोक्तानि । इतरेतरद्वन्द्वः । एते सर्वे वेदनाविशेषाः द्वविंशतिपरीषाहाः मुमुक्षुणा सहनीयाः । सङ्ख्या निरूपिता । इदानीं स्वरूपं निरूप्यते - यो मुनिर्निरवद्यमाहारं मार्गयति तस्याहारस्याप्राप्तौ २५ स्तोकाहारप्राप्तौ वा अप्रनष्टवेदनोऽपि सन् अकालेऽयोग्यदेशे च भुक्तिं नेच्छति, षडावश्यकपरिहाणिमीषदपि न सहते, ज्ञानध्यानभावनापरो भवति, बहून वारान् स्वयमेवानशनममौदर्यच कृतवान् वर्तते, अनेकवारांश्च परकारितमनशनमवमौदर्यच कृतवान् वर्तते,
१५