SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૮૮ तत्त्वार्थवृत्ती स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि इन्द्रियाणि यथासख्यं गजमस्यभ्रमरशलभमृगादीन् दुःखाणवे पातयन्ति, क्रोधमानमायालोभाश्च शिपिविष्टबाहुबलिकृष्णचमरादिवत् वधबन्धापकीर्तिपरिक्लेशप्रभृतीन प्रतिपादयन्ति । इह जन्मनि परत्र च नरकादिगतिगर्तेषु नानादुःखाग्नि प्रज्वलितेषु पर्याटयन्ति । एवमाद्यास्रवदोषानुचिन्तने भव्यजीवस्य उत्तमक्षमादिभिः शुभम५ तिन परिस्खलतीत्यास्त्रवानुप्रेक्षा ७॥ यः पुमान् कच्छपवत् संवृतात्मा भवति तस्यापदो न भवन्ति विकृता इव । यथा महासमुद्रे नौकायाः छिद्रपिधाने विद्यमाने क्रमेण प्रविष्टजलेन नावो निमज्जने सति नावाश्रितानामवश्यमेव विनाशो भवति विवरपिधाने तु निर्विघ्नं वाञ्छितदेशान्तरप्राप्तिर्भवति तथा कर्मागमनद्वारसंवरणे सति श्रेयःप्रतिबन्धो न भवति । 'एवमाध्यायतो जीवस्य संवरणे नित्यमेवोद्यम उत्पद्यते संवराच्च निर्वाणपदप्राप्तिर्भवतीति १० संवरानुप्रेक्षा ८। अबुद्धिपूर्वा कुशलमूला च निर्जरा द्विप्रकारा भवति । तत्राऽबुद्धिपूर्वा अकुशलानुबन्धापरनामिका नरकादिषु कर्मफलोदयजा जायते । परीषहसहने तु शुभानुबन्धा निरनुबन्धा च द्विप्रकारापि कुशलमूला निर्जरा उच्यते । एवं निर्जरायाः दोषान् गुणांश्च भावयतो भव्यजीवस्य कर्मनिर्जरणार्थं प्रवृत्तिर्भवतीति निर्जराऽनुमक्षा ।९। अधस्तादुपरि तिर्यक् 'च सर्वत्राकाशोऽनन्तो वर्तते तस्यानन्ताकाशस्यालोकाकाशापरसंज्ञस्यातिशयेन मध्यप्रदेशे लोको वर्तते १५ तस्य लोकस्य स्वभावसंस्थानाद्यनुचिन्तनं कुर्वतो भव्यजीवस्य तत्वज्ञानस्य विशुद्धिर्भवतीति लोकानुप्रक्षा । १० । एकस्मिन् निगोताङ्गे सिद्धानामनन्तगुणा जीवा भवन्ति एवं विश्वोऽपि लोकः स्थावरैः प्राणिभिनिरन्तरम्भृतो वर्तते तस्मिन् लोके त्रसत्वं दुर्लभम् । किंवत् ? महार्णवे पतितं वज्रसिकताया एकं रजोवत् । तत्र च त्रसेषु विकलत्रयं भूयिष्ठं वर्तते । तत्र पञ्चाक्षत्व मतिदुर्लभम् । किंवत् ? सर्वगुणेषु कृतज्ञतावत् । तत्रापि पञ्चेद्रियाः पशवो मृगाः पक्षिणः २० करकेन्दुकादयो बहवो वर्तन्ते तेषु पञ्चेन्द्रियेष्वपि मनुष्यजन्मातीवदुर्लभम् । किंवत् ? मार्गे पतितरत्नोञ्चयवत् । मनुष्यजन्मनिर्गमने तु पुनर्मनुष्यजन्मप्राप्तिरतीवदुर्लभा। किंवत् ? भस्मीभूतवृक्षस्य भस्मनः पुनः तरुभवनवत् । मनुष्यजन्मप्राप्तौ च सुदेशो दुर्लभस्तस्मिन् सुकुलं दुर्लभं तस्मिन्निन्द्रियाणि दुर्लभानि तेषु सम्पदो दुर्लभास्तास आरोग्यताऽतिदुर्लभा एतेषु विश्वेष्वपि सामग्रयेषु प्राप्तेषु जैनधर्मश्चेन्न भवेत्तर्हि मनुष्यजन्म २५ निरर्थक भवति । किंवत् ? लोचनविहीनवदनवत् । एवं कष्टलभ्यं जिनधर्म प्राप्य यो विषय सुखेषु रज्जति स पुमान् भस्मने गन्धसारतरुवरं दहति । यस्तु विषयसुखेभ्यो विरक्तस्तस्य तपाभावनाधर्मभावनासुखमरणादिलक्षणोपलक्षिता समाधिरतीव दुर्लभः । समाधौ च सति विषयसुखविरक्ततालक्षणो बोधिलाभः सफलो भवति । एवं भावयतो भव्यजीवस्य बोधि लब्ध्वा कदाचिदपि प्रमादो न भवतीति बोधिदुर्लभानुप्रक्षा । ११ । सर्वज्ञवीतरागप्रणीतः ३० सर्वजीवदयालक्षणः सत्याधिष्ठानो विनयमूल उत्तमक्षमाबलः ब्रह्मचर्यगुप्त उपशमप्रधानो १ विप्रकृता इव ता० । २ एवमात्यायध्यायतो ता । ३ प्रकृति- ता०। ४ सत्कुलम् ता । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy