SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९।७] नवमोऽध्यायः एव शरणम् । एवं भावना अशरणानुप्रक्षा भवति । एतां भावनां भावयतो भव्यजीवस्य भवसमुद्भवभावेषु ममता न भवति, रत्नत्रयमार्गे सर्वज्ञवीतरागप्रणीते निश्चलो भवति ।। पूर्वोक्तपञ्चप्रकारे' संसारे नानाकुयोनिकुलकोटथनेकशतसहस्रसङ्कटे पर्यटन जीवो विधियन्त्रचोदितो यः पिता स कदाचिद् भ्राता स एव पुत्रः पौत्रश्च सजायते । या जननी सा भगिनी भवति कदाचिद्भार्या कदाचित् पुत्री कदाचित् पौत्री च भवति। यः स्वामी वर्तते सः दासोऽपि ५ भवति यो दासो वर्तते स स्वामी चकास्ति । एवं रङ्गगतशैलूषवज्जीवो नानावेषान् धरति । किमन्यदुच्यते, स्वस्य स्वयं पुत्रो भवति । एवं संसारस्वरूपानुचिन्तनं कुर्वतो भव्यजीवस्य संसारदुःखाद् भयमुत्पद्यते, तस्माच्च वैराग्यं जायते । तेन तु संसारसमुद्रतरणे प्रयत्नं कुरुते इति संसारानुप्रेक्षा ।३। आत्मा एक एव जन्म प्राप्नोति तथा जरां मरणञ्च । तदुःखमेक एव भुङ्क्ते जीवस्य परमार्थतो न कश्चिद् बन्धुर्वर्तते न शत्रुर्जागर्ति एक एव जायते एक १० एव म्रियते । व्याधिजरामरणादिदुःखानि स्वजनो परजनो वा न सहते बन्धुवर्गो मित्रवर्गश्च पितृवनात् परतो नानुगच्छति । अविनश्वरो जिनधर्म एव जीवस्य सर्वदा सहायो भवतीति चिन्तयतो भव्यजीवस्य स्वजनपर जनेषु प्रीत्यप्रीती नोत्पद्यते तस्माच्च निस्सङ्गो भवति ततश्च मुक्तावेवोत्तिष्ठते इत्येकत्वानुप्रेक्षा ।४। जीवात् कायादिकस्य पृथक्त्वानुचिन्तनमन्यत्वानुप्रेक्षा भवति । तथाहि-जीवस्य५ बन्धं प्रति एकत्वे सत्यपि लक्षणभेदात् काय १५ इन्द्रियमय आत्माऽनिन्द्रियोऽन्यो वर्तते, कायोऽज्ञ आत्मा ज्ञानवान्,कायोऽनित्य आत्मा नित्यः काय आद्यन्तवान् आत्मा अनाद्यन्तवान् , कायानां बहूनि कोदिलक्षाणि अतिक्रान्तानि आत्मा संसारे निरन्तरं परिभ्रमन् स एव तेभ्योऽन्यों वर्तते । एवं यदि जीवस्य कायादपि पृथक्त्वं वर्तते तहि कलत्रपुत्रगृहिवाहनादिभ्यः पृथक्त्वं कथं न बोभोति अपि तु बोभवीत्येव । एवं भव्यजीवस्य समाहितचेतसः कायादिषु निःस्पृहस्य तत्त्वज्ञानभावनापरस्य कायादेभिन्नत्वं २० चिन्तयतो वैराग्योत्कृष्टता भवति । तेन तु अनन्तस्य मुक्तिसौख्यस्य प्राप्तिर्भवतीत्यन्यत्वानुप्रेक्षा । ५। अयं कायोऽतीवाशुच्युत्पत्तिस्थानं दुर्गन्धोऽपवित्रो मृदुधातुरुधिरसमेधितो वर्चीगृहवदशुचिभाण्डं मक्षिकापक्षसदृशच्छविमात्रप्रच्छादितोऽतिदुर्गन्धरसनिस्यन्दिस्रोतोबिलसमाकुलः पवित्रमपि वस्तु समाश्रितं तत्क्षणमेव निजत्वं प्रापयति अङ्गारवत् । अस्य कायस्य जलादिप्रक्षालनचन्दनकर्पूरकुङ्कमाद्यनुलेपनराजा_दिधूपनेष्टकादिप्रघर्षणचूर्णादिवासनपुष्पादिभि- २५ रधिवासनादिभिरशुचित्वमपाकर्तुं न शक्यते । सम्यग्दर्शनज्ञानचारित्राणि पुनर्भाव्यमानानि जीवस्यातिविशुद्धिं कुर्वन्तीति चिन्तयतो भव्यजीवस्य °वमणि वैराग्यं समुत्पद्यते, तेन तु संसारसमुद्र सन्तरणाय मनः सावधानं भवतीत्यशुचित्वानुप्रेक्षा ।६। इह जन्मनि परत्रच आनवा जीवस्यापायं कुर्वन्ति । इन्द्रियकषायाव्रतक्रिया महानदीप्रवाहवेगवत्तीव्रा भवन्ति । १ प्रकारसं- आ०, द०, ज० । २ कुरु इति आ०, द०, ज० । ३ नापहरति ता० । ४ स्वजने पर- आ०, द०, ज० । ५ -स्य सम्बन्ध- आ०, द०, ज० ६-गृहगवादि भ्यः ता० । ७ वर्मभिः मा०,द०, ज०। ८ पनवा आ०,६०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy