________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६ तत्त्वार्थवृत्ती
[ ९७ अथेदानीमनुप्रेक्षानिरूपणार्थं सूत्रमिदमुच्यते-- अनित्याशरणसंसारकत्वान्यस्वाशुच्यास्रवसंवरनिर्जरालोकयो ___धिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥ ७ ॥
अनित्यश्च अशरणश्च संसारश्च एकत्वञ्च अन्यत्वञ्च अशुचिश्च आस्रवश्व निर्जरा ५ च लोकश्च बोधिदुर्लभा च धर्मश्च अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोक
बोधिदुर्लभधर्मास्तेषां स्वाख्याः निजनिजनामानि तासां तत्त्वमर्थस्तस्यानुचिन्तनं पुनः पुनः स्मरणमनुप्रेक्षा भवति । न नित्यमनित्यम् । न शरणमशरणम् । संसरन्ति पर्यटन्ति यस्मिनिति संसारः। एकस्यात्मनो भाव एकत्वम् । शरीरादेरन्यस्य भावोऽन्यत्वम् । न शुचिः कायोऽ
शुचिः । आस्रवतीति आस्रवः । कर्मागमनं संवृणोति अभिनवकर्मप्रवेशं कर्तुं न ददाति इति १० संवरः । एकदेशेन कर्मणां निर्जरणं गलनमधःपतनं शट नं निर्जरा। लोक्यन्ते जीवादयः पदार्था
यस्मिन् इति लोकः । बोधनं बोधिः संसारभोगवैराग्यमित्यर्थः । बोधिश्चासौ दुर्लभा बोधिदुर्लभा । उत्तमपदे धरतीति धर्मः । इति निजनिजनामानुसारेण तत्त्वानुचिन्तनमनुप्रेक्षा १भवतीति संक्षेपेणानुप्रेक्षार्थो ज्ञातव्यः ।
अथ किञ्चिद् विस्तरेणार्थः कथ्यते-- काय इन्द्रियविषया भोगोपभोगव१५ स्तूनि समुदायप्राप्तानि यानि वर्तन्ते तानि सर्वाणि अनित्यानि अध्रुवाणि अनव
स्थितस्वरूपाणि वर्तन्ते । किंवत् ? मेघजालवत् इन्द्रचापवत् विद्युदुन्मेषवत् जलबुद्बुदवत् गिरिनदीप्रवाहवत् खलजनमैत्रीवत् चेत्यादयो दृष्टान्तास्तत्र बहवः सन्ति । गर्भाद्यवस्थाविशेष सदोपलभ्यमानसंयोगविपर्ययत्वात् पूर्वोत्तेषु जडो जीवो ध्रुवत्वं मनुते,
न च किश्चित् संसारे समुत्पन्नं वस्तु ध्रुवं विलोक्यते जीवस्य ज्ञानदर्शनोपयोग२० स्वरूपादन्यत्रेति" चिन्तनमनित्यत्वानुप्रेक्षा भवति । तां चिन्तयतो भव्यजीवस्य शरीरपुत्रकल
त्रादिषु भोगोपभोगेषु अनुबन्धो न भवति, वियोगावसरेऽपि दुःखं नोत्पद्यते, भुक्तोझितस्रक्चन्दनादिषु यथा विरक्तो भवति तथा शरीरादिषु विरलो भवति । १। यथा मृगबालकस्य निर्जने बने बलवता मांसाकाक्षिणा क्षुधितेन द्वीपिना गृहीतस्य किञ्चिच्छरणं न वर्तते
तथा जन्मजरामरणरोगा दिदुःखमध्ये पर्यटतो जीवस्य किमपि शरणं न वर्तते, सम्पुष्टोऽपि २५ कायः सहायो न भवति भोजनादन्यत्र "दुःखागमने। प्रयत्नेन सञ्चिता अपि रायो भवान्तरं
नानुगच्छन्ति । संविभक्तसुखा अपि सुहृदो मरणकाले न परिरक्षन्ति । रोगग्रस्तं पुमांसं सङ्गता अपि बान्धवा न प्रतिपालयन्ति । सुचरितो जिनधर्मो दुःखमहासमुद्रसन्तरणोपायो भवति । यमेन नीयमानमात्मानमिन्द्रधरणेन्द्रचक्रवर्त्यादयोऽपि शरणं न भवन्ति, तत्र जिनधर्म
१ भवन्तीति आ०, द०, ज० | २ -मेघनत् भा०, द०, ज० । ३ -शेषमदोप- आ०, द०, ज० । ४ संसारस- भा०, द०, ज.। ५ न्यत्वेति ता० । ६-रोगादिषु दु:- आ०, द०, ज० । ७ दुःखागमे आ०, द०, ज०। ८ धनानि ।
For Private And Personal Use Only