SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९।६] नवमोऽध्यायः २८५ भिलप्यते । ननु सत्यवचनं भाषासमितावन्तभितं वर्तत एव किमर्थमत्र तद्ग्रहणम् ? साधूक्तं भवता ; भाषासमिती प्रवर्तमानो यतिः साधुषु असाधुषु च भाषाव्यापार विदधन हितं मितञ्च ब्रूयात् , अन्यथा असाधुषु अहितभाषणेऽमितभाषणे च रागानर्थदण्डदोषो भवेत् , तदा तस्य का भाषासमितिः न कापीत्यर्थः । सत्यवचने त्वयं विशेषः-सन्तः प्रव्रज्यां प्राप्तास्तद्भक्ताः वा ये वर्तन्ते तेषु यद्वचनं साधु तत् सत्यम् , तथा च ज्ञानचारित्रादिशिक्षणे प्रचुरमपि अमितमपि ५ वचनं वक्तव्यम्। इतीदृशो भाषासमितिसत्यवचनयोविशेषो वर्तते। उत्कृष्टतासमागतगाद्धर्थपरिहरणं शौचमुच्यते । मनोगुप्तौ मानसः परिस्पन्दः सर्वोऽपि निषिध्यते तन्निषेधे योऽसमर्थस्तस्य परकीयवस्तुषु अनिष्टप्रणिधानपरिहरणं शौचमिति मनोगुप्तिशौचयोर्महान भेदः। भगवती-आराधनायां तु शौचस्य लाधवमित्यपरसंज्ञा वर्तते । धर्मोपचयार्थं धर्मोपबृहणार्थ समितिषु प्रवर्तमानस्य पुरुषस्य तत्प्रतिपालनार्थ प्राणव्यपरोपणपडिन्द्रियविषयपरिहरणं १० संयम उच्यते । स संयमो द्विविधः-अपहृतसज्ञक उपेक्षासंज्ञकश्च । तत्र अपहृतसंज्ञकस्त्रिविधः । तद्यथा-प्रासुकवसतिभोजनादिमात्रबाह्यसाधनस्य स्वाधीनज्ञानादिकस्य मुनेर्जन्तूपनिपाते आत्मानं ततोऽपहृत्य दूरीकृत्य जीवान् पालयत उत्कृष्टः संयमो भवति । मृदुना" मयूरपिच्छेण प्रमृज्य परिहरतो मध्यमः संयमः । उपकरणान्तरेण प्रमृज्य परिहरतो निकृष्टः संयमः .. इत्यपहृतसंयमस्त्रिविधः । अथोपेक्षासंयम उच्यते-देशकालविधानज्ञस्य परेषामनुरोधेन १५ व्युत्सृष्टकायस्य त्रिगुप्तिगुप्तस्य मुनेः रागद्वेषयोरनभिष्वङ्ग उपेक्षासंयमः । उपार्जितकर्मक्षयार्थ तपस्विना तप्यते इति तपः,तद् द्वादशविधं वक्ष्यमाणविस्तरं ज्ञातव्यम्। संयमिनां योग्यं ज्ञानसंयमशौचोपकरणादिदानं त्याग उच्यते । नास्ति अस्य किञ्चन किमपि अकिञ्चनो निष्परिग्रहः तस्य भावः कर्म वा आकिञ्चन्यम् । निजशरीरादिषु संस्कारपरिहाराय ममेदमित्यभिसन्धिनिषेधनमित्यर्थः । तदाकिचन्यं चतुःप्रकारं भवति-स्वस्य परस्य च जीवितलोभपरिहरणं स्वस्य परस्य २० च आरोग्यलोभपरिणं स्वस्य परस्य च इन्द्रियलोभपरित्यजनं स्वस्य परस्य चोपभोगलोमोझनञ्चेति । पूर्वानुभुक्तवनितारमरणं वनिताकथास्मरणं वनितासङ्गासत्तस्य शय्यासनादिकञ्च अब्रह्म तद्वर्जनात् ब्रह्मचर्य परिपूर्ण भवति । स्वेच्छाचारप्रवृत्तिनिवृत्त्यर्थ गुरुकुलवासो वा ब्रह्मचर्यमुच्यते। गुप्तिसूत्रं प्रवृत्तिनिग्रहार्थम्, तत्रासमर्थानां प्रवृत्त्य युपायप्रदर्शनार्थ द्वितीयं समितिसूत्रम् । इदन्तु तृतीयं सूत्रं दशविधधर्मकथकं पञ्चसमितिषु प्रवर्तमानस्य मुनेः प्रमाद- २५ परिहरणार्थं बोद्धव्यम् । क्षमा च मार्दवञ्च आर्जवञ्च सत्यञ्च शौचञ्च संयमश्च तपश्च त्यागश्च आकिञ्चन्यञ्च ब्रह्मचर्यच क्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिन्चन्यब्रह्मचर्याणि । उत्तमानि दृष्टप्रयोजनपरिवर्जनानि च तानि क्षमादीनि तानि तथोक्तानि, एतानि दश धर्म इति धर्मसंज्ञानि संवरकारणानि वेदितव्यानीति क्रियाकारकसम्बन्धः । तप्तलोहपिण्डवत् क्रोधादिपराभूतेन मुनिना उत्तमक्षमादीनि स्वपरहितैषिणा कर्तव्यानि । ३० १ अन्यथा साधुषु ता० । २ उत्कृष्ट समा- आ०, द०, ज० । ३ निषेध्यते आ०, द०, ज० । ४ "अज्जवमद्दवन्लाधवतुट्टी पल्हादणं च गुणा" भग० आरा० गा० ४००। ५ मृदुना दयोपकरणेन प्र- आ०, द०,ज०। ६ प्रवृत्तिनिवृत्त्यभ्यु- आ०, द०, ज०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy