SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ तत्त्वार्थवृत्तो सम्यगीर्यासमितिः सम्यग्भापासमितिः सम्यगेषणासमितिः सम्यगादाननिक्षेपसमितिः सम्यगुत्सर्गसमितिश्चेति । तत्र सम्यगीर्यासमितिरुच्यते-तीर्थयात्राधर्मकार्याद्यर्थ गच्छतो मुनेश्चतुःकरमात्रमार्गनिरीक्षणपूर्वकं सावधानदृष्टेरव्यप्रचेतसः सम्यविज्ञातजीवस्थानस्वरूपस्य सम्यगीर्यासमितिर्भवति । कानि तानि जीवस्थानानि ? तत्स्वरूपनिरूपणार्थमियं गाथा "बादरसुहमगिदियवितिचउरिदियअसण्णिसण्णी य । पञ्जत्तापञ्जत्ता भूदा ये चोदसा होति ॥" [ गो० जीव० गा० ७२ ] सम्यग्भाषासमितिरुच्यते-हितं परिमितमसन्दिग्धं सत्यमनसूयं प्रियं कर्णामृतप्रायमशङ्काकरं कषायानुत्पादक सभास्थानयोग्यं मृदु धर्माविरोधि देशकालाधुचितं हास्यादिरहितं वचोऽभिधानं सम्यकभाषासमितिर्भवति । सम्यगेषणासमितिरुच्यते-शरीरदर्शनमात्रेण प्राप्तमयाचितममृत१० संज्ञमुद्गमोत्पादनादिदोषरहितमजिनहिङ्ग्वादिभिरस्पृष्टं परार्थ निष्पन्न काले भोजनग्रहणं सम्यगेषणासमितिर्भवति । सम्यगादाननिक्षेपसमितिरुच्यते-धर्मोपकरणग्रहणविसर्जने सम्यगंवलोक्य मयूरवर्हेण प्रतिलिख्य तदभावे वस्त्रादिना प्रतिलिख्य स्वीकरणं विसजनञ्च सम्यगादाननिक्षेपसमितिर्भवति । एतेन गोपुच्छमेषरोमादिभिः प्रतिलेखनं मुनेः प्रतिषिद्धं भवति । सम्यगुत्सर्गसमितिरुच्यते--प्राणिनामवरोधेनाङ्गमलत्यजनं शरीरस्य च १५ स्थापनं दिगम्बरस्योत्सर्गसमितिर्भवति । एते पञ्च प्राणिनां पीडापरिहारस्याभ्युपाया "अवसातव्याः । इत्थं प्रवर्तमानस्यासंयमपरिणामनिमित्तस्य कर्मण आस्रवाभावो भवति तेन च संवरः समाढौकते। अथ संवरकारणस्य धर्मस्य विकल्पपरिज्ञानार्थं सूत्रमिदं ब्रुवन्तिउत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिश्चन्य ब्रह्मचर्याणि धर्मः ॥६॥ कायस्थितिकारणविष्वाणाद्यन्वेषणाय परगृहान् पर्यटतो मुनेः दुष्टपापिष्टपञ्चजनानामसह्यगालिप्रदान वर्करवचनावहेलनपीडाजननकायविनाशनादीनां समुत्पत्तौ "मनोऽनच्छतानुत्पादः क्षमा कथ्यते । "ज्ञानं पूजां कुलं जाति बलमृद्धिं तपो वपुः । अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ॥" [रत्नक० श्लो० २५] इति श्लोककथितस्याष्टविधस्य मदस्य समावेशात् परकृतपराभिभवनिमित्ताभिमानमुक्तिर्मार्दवमुच्यते । मृदोभावः कर्म वामार्दवमिति निरुक्तेः। मनोवचनकायकर्मणामकौटिल्यमार्जवमभिधीयते । सत्सु दिगम्बरेषु महामुनिषु तदुपासकेषुच श्रेष्ठेषु लोकेषु साधु यद्वचनं तत्सत्यमित्य १ -निक्षेपणासमितिः आ०, द०, ज०।२ बादरसू मैकेन्द्रियद्वित्रिचतुरिन्द्रि यासंशिसंहिनश्च । पर्याप्तापर्याप्ता भूता ये चतुर्दश भवन्ति ।। ३ -गालोक्य आ०, द०, ज० । ४ -लोक्य दयोपकरणेन प्रति- आ०, द०, ज० १५ अवस्थातव्याः आ०, द०, ज०। ६ -वर्वरव- आ०, द०, ज० । ७ मनोऽनवस्थानु- आ०, द०, ज०,। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy