________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
९।३-५]
नवमोऽध्यायः दिदीक्षाचिह्नोद्वहननिजमस्तकच्छेदनदेवादिपूजनरागद्वेषादिमलिनदेवताराधनादिभिः संवरो न भवतीत्यर्थः । कस्मात् ? रागद्वेषमोहादिभिरुपार्जितस्य कर्मणोऽपरथा निवर्तनाभावात् ।। अथ संवरस्य निर्जरायाश्च कारणविशेषकथनार्थ सूत्रमिदमाचष्टे
तपसा निर्जर। च ॥३॥ तपसा कृत्वा निर्जरा एकदेशकर्मगलनं भवति, चकारात्संवरश्च भवति । ननु दशलाक्ष- ५ णिकधर्ममध्येऽपि तपो वर्तते तेनैव संवरनिर्जरे भविष्यतः किमर्थमत्र तपोग्रहणसूत्रम् ? युक्तमुक्तं भवता; अत्र तपोग्रहणं नूनकर्मसंवरणपूर्वककर्मक्षयकारणत्वप्रतिपादनार्थं प्रधानत्वेन संवरविधायकत्वकथनार्थं च तपोग्रहणमत्र वर्तते । १ ननु तपः खल्वभ्युदयदायकमागमे प्रतिपादितं संवरनिर्जरासाधकं कथम् ? तथा चोक्तम्
"दाणे लब्भइ भोउ पर इंदत्तणु वि तवेण।
जम्मणमरणविवज्जियउ पउ लब्भइ णाणेण ॥"[ परमात्मप्र० २।७२ ] साधूक्तं भवता-एकमपि तप इन्द्रादिपदं ददाति संवरनिर्जरे च करोति । यथैकमपि छत्रं छायां करोति धर्मजलनिषेधञ्च कुर्यात् एकस्याप्यनेककार्यविलोकनाद्वह्निवत् । यथा एकोऽपि वह्निर्विक्लेदनादिकरणात् पावको भवति भस्मसात्करणाद् दाहकश्योच्यते तथा तपोऽप्यभ्युदयकर्मक्षयकारणं भवतीति नास्त्यागमविरोधः।
अथ गुप्यादीनां संवरहेतूनां स्वरूपनिरूपणार्थ प्रबन्धः कथ्यते । तत्रादौ गुप्तिस्वरूपनिरूपणार्थं सूत्रमिदमाहुः
सम्यग्योगनिग्रहो गुप्तिः ॥४॥ सम्यकप्रकारेण लोकसत्कारख्यातिपूजालाभाकाङ्क्षारहितप्रकारेण योगस्य कायवाङ्मनःकमलक्षणस्य निग्रहो निरोधः सम्यग्योगनिग्रहो विषयसुखाभिलाषार्थप्रवृत्तिनिषेध इत्यर्थः । २० यः सम्यग्योगनिग्रहो मनोवाक्कायव्यापारनिषेधनं सा गुप्तिरित्युच्यते । योगनिग्रहे सति आत्तरौद्रध्यानलक्षणसंक्लेशप्रादुर्भावो न भवति तस्मिंश्च सति कर्म नास्रवति तेन गुप्तिः संवरप्रसिद्धयर्थं वेदितव्या। सा त्रिप्रकारा-कायगुप्तिवाग्गुप्तिमनोगुप्तिविकल्पात् ।
अथ गुप्तिषु यो मुनिरसमर्थो भवति तस्य मुनेः निष्पापप्रवृत्तिप्रतिपादनार्थ समितिसूत्रमुच्यते
र्याभाषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ ईर्या च भाषा च एषणा च आदाननिक्षेपौ च उत्सर्गश्च ईर्याभाषेषणादाननिक्षेपोत्सर्गाः। एते पञ्च समितयो भवन्ति । सम्यकशब्दः पूर्वसूत्रोक्तोऽत्रापि ग्राह्यः । तेनैवं सम्बन्धो भवति ।
१ ननु वरं तपः आ०, द०, ज० । २ “दानेन लभ्यते भोगः परं इन्द्र त्वमपि तपसा । जन्ममरणविवर्जितं पदं लभ्यते ज्ञानेन ।” ३ -निषेधनञ्च ता० । ४ रच्यते ता० ।
For Private And Personal Use Only