________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२ तत्त्वार्थवृत्तौ
[ ९२ दिषु क्षणेषु उत्पद्यन्ते तेनेदं गुणस्थानमपूर्वकरणमित्यन्वर्थसंज्ञं भवति । अथ अनिवृत्तिबादरसाम्परायगुणस्थानस्वरूपमुच्यते-साम्परायशब्द कषायो लभ्यते यत्र साम्परायस्य कषायस्य स्थूलत्वेनोपशमः क्षयश्च वर्तते तदनिवृत्तबादरसाम्परायसंज्ञं गुणस्थानमुच्यते । तत्र जीवा
उपशमकाः क्षपकाश्च भवन्ति । एकस्मिन् समये नानाजीवापेक्षयापि एकरूपाः परिणामाः ५ भवन्ति । यतः परिणामानां परस्परं स्वरूपानिवृत्तिस्तेन कारणेनानिवृत्तिकरणबादरसाम्पराय
संज्ञं नवमगुणस्थानमुच्यते । साम्परायस्य कषायस्य सूक्ष्मतया उपशमात् क्षपणाञ्च सूक्ष्मसाम्परायसंज्ञं दशमं गुणस्थानं भवति । तत्रोपशमकाः क्षपकाश्च जीवा भवन्ति । 'उपशान्तमोहसंज्ञं त्वेकादशं गुणस्थानं तस्योपशमात् । क्षीणमोहसंबं द्वादशन्तु गुणस्थानं सर्वस्य मोहस्य
क्षपणात् भवति । सम्प्राप्त केवलज्ञानदर्शनो जीवो यत्र भवति तत्सयोगिजिनसंज्ञं त्रयोदशं १० गुणस्थानं भवति । पश्चलध्वक्षरकालस्थितिकमयोगिजिनसंज्ञं चतुर्दशं गुणस्थानं वेदितव्म् ।
अपूर्वकरणगुणस्थानमादिं कृत्वा क्षीणकषायगुणस्थानपर्यन्तेषु गुणस्थानेषु उत्तरोत्तरक्षणेषु जीवस्योत्कृष्टोत्कृष्टपरिणामविशुद्धिर्वेदितव्या। निकृष्टत्वेन मिथ्यात्वगुणस्थानस्य कालोऽन्तर्मुहूर्तो भवति । अभव्यापेक्षया मिथ्यात्वगुणस्थानस्य काल उत्कृष्ट अनाद्यनन्तः, भव्यस्य मिथ्या
त्वगुणस्थाने कालोऽनादिसान्तः । सासादनस्य कालः उपशमसम्यक्तवकालस्यान्तर्मुहूर्तलक्षणस्य १५ प्रान्ते निकृष्ट एक समयः उत्कृष्ट आवलिषट्कम् । मिश्रस्य कालोऽन्तर्मुहूर्तः । असंयतसम्यग्दृष्टेनि
कृष्टः कालोऽन्तर्मुहूर्तः उत्कृष्टकालः षट्षष्टिसागरोपमाणि । देशसंयतस्य कालो निकृष्टो मुहूर्तमात्रः उत्कृष्टस्तु पूर्वकोटी किञ्चिदूना । प्रमत्तसंयतादिक्षीणकषायपर्यन्तानामुत्कृष्टः कालोऽन्तमुहूर्तः । सयोगिजिनकालः पूवकोटी किञ्चिदूना । जघन्यकालस्तु परमागमाद् वेदितव्यः। उप
शमश्रेणौ सर्वोत्कृष्टः कालोऽन्तर्मुहूर्तमात्रः। २० अथेदानीं संवरस्य हेतुभूतान् भावसंवरविशेषान् संविवक्षुः सूत्रमिदमाह
स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥
भवकारणात् मनोवाक्कायव्यापारात् आत्मनो गोपनं रक्षणं गुप्तिः । सम्यगयनं जन्तुपीडापरित्यागार्थ वर्तनं समितिः । संसारसागरादुद्धृत्य इन्द्रनरेन्द्रधरणेन्द्रचन्द्रादिवन्दिते
पदे आत्मानं धरतीति धर्मः । "कायादिस्वभावानुचिन्तनमनुप्रेक्षा । क्षुधातृषादिवेदना२५ समुत्पत्तौ उपार्जितकर्म निर्जरणार्थं परि समन्तात् सहनं परीषहः तस्य जयः परीषहजयः ।
सामायिकादिपञ्चभेदसहितं चारित्रम् । गुप्तिश्च समितिश्च धर्मश्च अनुप्रेक्षा च परीषहजयश्च चारित्रञ्च गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्राणि तैर्गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः। एतैः षभिः सान्तर्भेदैः संयमपरिणामः कृत्वा स पूर्वोक्तः संवरो भवति । करणनिर्द
शेनैव पूर्वोक्तः संवरो विज्ञायते । स इति ग्रहणं किमर्थमिति चेत् ? स ग्रहणं निर्धारणार्थम् । ३० तेनायमर्थः-गुप्त्यादिभिः कृत्वैव संवरो भवति जलनिमज्जनकपालग्रहणशिरोमुण्डनशिखाधारणा
१ उपशान्तकषायमोह- आ०, द०, ज० । २ सर्वस्योप- ता० । ३ क्षीणकघायप- आ०, द०, ज० । ४-मात्रम् सा० । ५ कायादिस्वभावादिचि- आ०, द०, जा
For Private And Personal Use Only