________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमोऽध्यायः तावन्न विज्ञायते तत्स्वरूपं विज्ञापयितुं योग्यमिति गुणस्थानानां स्वरूपं निरूप्यते-तत्त्वार्थविपरीतरुचिः मिथ्यादृष्टिः प्रथमं गुणस्थानं भवति । दर्शनमोहस्य भेदास्त्रयः-सम्यक्तवमिथ्यात्वसम्यग्मिथ्यात्वविकल्पात् । तेषामुदयाभावेऽनन्तानुबन्धिक्रोधमानमायालोभानां चोदयाभावे सति प्रथमसम्यक्त्वमौपशमिकं नाम समुत्पद्यते। तस्य कालोऽन्तर्मुहूर्तः। तस्यान्तर्मुहूर्तस्य मध्ये उत्कर्षेण आवलिकाषट्के उद्धरिते सति जघन्येनैकस्मिन् समये चोद्धरिते सति अनन्ता- ५ नुबन्धिक्रोधमानमायालोभानां मध्ये अन्यतमस्योदये सति शेषस्य मिथ्यादर्शनकारणस्यानुदये सति सासादनसम्यग्दृष्टिीव उच्यते । तद् द्वितीयं गुणस्थानं भवति । सासादनसम्यग्दृष्टेः मिथ्यादर्शनानुदयेऽपि अनन्तानुबन्ध्यन्यतमोदयात् यत् ज्ञानत्रयं तदज्ञानत्रयमेव । कथमिति चेत् ? यस्मात्कारणात्तेऽनन्तानुबन्धिनः कषाया अनन्तमिध्यादर्शनानुबन्धनान्मिध्यादर्शनोदयलक्षणं फलमुत्पादयन्ति मिथ्यादर्शनमेवात्मनि प्रवेशयन्ति । परिहृतसासादनगुणः पुमानवश्यमेव १० मिथ्यात्वगुणस्थानं गच्छतीति सासादनवर्णनम् । अथ मिश्रगुणस्थानस्वरूपं कथ्यते–सम्यग्मिध्यात्वकर्मोदयात् मनाक्कलुषपरिणामः पुमान् भवति क्षीणाक्षीणमदशक्तिकोद्रवोत्पादितमनाक्कलुषपरिणामवत् । तेन कारणेन सम्यग्मिथ्याष्टिीवस्तत्त्वार्थरुच्यरुचिरूपो भवति । सम्यग्मिथ्यादृष्टेः पुरुषस्य यदज्ञानत्रयं तत्सत्यासत्यरूपं वेदितव्यम् । चारित्रमोहकर्मोदयाज्जीवोऽतीवाविरतो भवति सोऽसंयतसम्यग्दृष्टिरुच्यते । श्रावकव्रतानि प्रतिपालयन् पुमान् १५ देशविरतो भवति तत्पश्चमं गुणस्थानम् । अप्रमत्तोऽपि सन् अन्तर्मुहूर्त प्रमादं भजन प्रमत्तसंयतो भवति तत् षष्ठं गुणस्थानम् । यो जङ्घासेचनादिनिद्रादिप्रमादं न भजते स पुमान् अप्रमत्तसंयतो भवति तत् सप्तमं गुणस्थानम्। अपूर्वकरणमनिवृत्तिबादरसाम्परायसंज्ञं सूक्ष्मसाम्परायसंज्ञञ्च एतानि त्रीणि गुणस्थानानि अष्टमनवमदशमगुणस्थानानि भवन्ति । तेषु त्रिषु गुणस्थानेषु द्वे श्रेणी वर्तेते । उपशमकश्रोणिः क्षप- २० कश्रेणिश्च । यस्यामात्मा मोहनीयं कर्म उपशमयन आरोहति सा उपशमकश्रेणिः । यस्यामात्मा मोहनीयं कर्म क्षपयन् आरोहति सा क्षपकश्रेणि रुच्यते । तत्रोपशमश्रेणिमान् पुमान् अष्टमं नवमं दशममेकादशञ्च गुणस्थानं गत्वा पतति । क्षपकश्रेणिमान् पुमान् अष्टमं नवमं दशमञ्च गुणस्थानं गत्वा एकादशं गुणस्थानं वर्जयित्वा द्वादशं क्षीणकषायसंज्ञमारोहति । अपूर्वकरणे अष्टमगुणस्थाने य उपशमकः क्षपकश्च वर्तते स जन्मापूर्वान् करणान् २५ परिणामान प्राप्नोति तेन तदष्टमं गुणस्थानमपूर्वकरणमित्युच्यते । अस्मिन् गुणस्थाने कर्मोपशमः कर्मक्षयो न वर्तते किन्तु सप्तमनवमगुणस्थानयोर्मध्ये पतितत्वात् उपशमः क्षपकञ्चोपचारेणोच्यते घृतघटवत् । यथा मृन्मयोऽपि घटो घृतघट उच्यते घृतसमीपवर्तित्वात् । अस्मिन् गुणस्थाने नानाजीवाऽपेक्षया अन्तर्मुहूर्तस्य एकस्मिन्नपि क्षणेऽन्योन्यमवश्यमेव परिणामा विषमा भवन्ति, प्रथमक्षणे ये परिणामा उत्पन्नास्ते परिणामाश्च अपूर्वाः परिणामाः द्वितीया- ३०
१-दृष्टिपु- आ०, ज०, द० । २ उपशमश्रेणिः आ०, द०, ज० । ३ परिणामा अपूर्वाश्च परि-ता।
For Private And Personal Use Only