________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती योगतिः द्वाविंशतितमो दुर्भगः त्रयोविंशो दुःस्वरः 'चतुर्विशतितममनादेयं पञ्चविंशतितमं नीचैर्गोत्रमिति। अप्रत्याख्यानावरणकषायोदयकल्पितासंयमकारणानां दशानां प्रकृतीनामे केन्द्रियादयो जीवा असंयतसम्यग्दृष्टिपर्यन्ता बन्धका भवन्ति । बन्धकाभावात् तदुपरि तासां
दशानां प्रकृतीनां संवरो भवति । कास्ताः दश प्रकृतयः ? अप्रत्याख्यानावरणक्रोधमानमायालो५ भाश्चत्वारः पञ्चमं मनुष्यायुः षष्ठी मनुष्यगतिः सप्तमनौदारिकशरीरम् अष्टममौदारिकशरीराङ्गोपाङ्गं नवमं वर्षभनाराचसंहननं दशमं मनुष्यगतिप्रायोग्यानुपूव्यम् । सम्यग्मिथ्यात्वगुणेन आयुर्न बध्यते । प्रत्याख्यानावरणक्रोधमानमायालोभानां चतसृणां प्रकृतीनां प्रत्याख्यानकषायोदयहेतुकासंयमास्रवाणामेकेन्द्रियादयो देशसंयतपर्यन्ता बन्धका भवन्ति । बन्धकाभावात्तदुपरि
तासां संवरो भवति । प्रमादानीतस्य कर्मणः प्रमत्तसंयतादुपरि संवरो भवति । कस्मात् ? तद्१० भावात् बन्धकाभावात् । किं तत् कर्म ? असवेद्यमरतिः शोकः अस्थिरः अशुभः अयशःकीर्तिः ।
देवायुबन्धारम्भस्य हेतुः प्रमाद एव तत्प्रत्यासन्नोऽप्रमादोऽपि हेतुः । तदुपरि तस्य संवरो भवति कषाय एवास्रवो यस्य कर्मणो न प्रमादादिस्तस्य कर्मणः प्रमादनिरोधनिरास्त्रवो ज्ञातव्यः । स च कषायः प्रमादादिविरहितः तीमध्यमजघन्यत्वेन गुणस्थानत्रये व्यवस्थितः। तत्र अपूर्वकरण
गुणस्थानस्यादौ सङ्ख्येयभागे निद्राप्रचले द्वे कर्मप्रकृती बध्येते तदुपरि सङ्ख्येये भागे त्रिंश१५ स्प्रकृतयो बध्यन्ते । कास्ताः प्रकृतयः ? देवगतिः पञ्चेन्द्रियजातिः वैक्रियिकाहारकर्तजसकाम
णानि चत्वारि शरीराणि समचतुरस्रसंस्थानं वैक्रियिकशरीराङ्गोपाङ्गम् आहारकशरीराङ्गोपाङ्गम् । वर्णो गन्धो रसः स्पर्शः देवगतिप्रायोग्यानुपूर्व्यम् अगुरुलघुः उपघातः परघातः उच्छ्वासः प्रशस्तविहायोगतिस्त्रसो बादरः पर्याप्तकः प्रत्येकशरीरं स्थिरः शुभः सुभगः सुस्वरः आदेयं निर्माणं तीर्थकरत्वञ्चेति । अपूर्वकरणस्यान्तसमये चतस्रः प्रकृतयो बन्धमायान्ति । कास्ताः ? २० हास्यं रतिर्मयं जुगुप्सा चेति । एताः षट्त्रिंशत्प्रकृतयः तीनकषायास्रवा भवन्ति । तदभा
वात् कथिताद् भागादुपरि संवरो भवति । अनिवृत्तिबादरसाम्परायस्य नवमस्य गुणस्थानस्य प्रथमसमयादारभ्य संख्येयेषु भागेषु पुंवेदः क्रोधसब्ज्वलनश्च द्वौ बध्येते । तदुपरि सङ्ख्येयेषु भागेषु मानमायासज्वलनौ बध्येते । अनिवृत्तिबादरसाम्परायस्यान्तसमये लोभसज्व
लनो बध्यते । एताः पञ्चप्रकृतयः मध्यमकषायास्रवाः। तदभावे कथितस्य भागस्योपरि संवरो २५ भवति । सूक्ष्म साम्पराये षोडशानां प्रकृतीनां बन्धो भवति । तदुपरि तासां संवरः। कास्ताः
षोडशप्रकृतयः १ पञ्च ज्ञानावरणानि चत्वारि दर्शनावरणानि यशःकीर्तिः उच्चैौत्रं पश्चान्तरायाः। एताः मन्दकषायास्रवः षोडश। उपशान्तकषायक्षीणकषायसयोगकेवलिनामेकेनेव योगेन एकस्या एव प्रकृतेर्बन्धो भवति । तदभावात् अयोगकेवलिनस्तस्याः संवरो भवति ।
काऽसावेका प्रकृतिः ? सद्वेद्यमिति । ३० अथाह कश्चित्-गुणस्थानेषु संवरस्वरूपं निरूपितं भवद्भिः परन्तु गुणस्थानानां स्वरूपं
१ चतुर्विंशम- ता०। २ -पूर्वी आ०, ज०, द० । ३ तीर्थकरञ्चेति आ., ज०, द०। ४ -संवररूपम् आ०, ज०, ३० ।
For Private And Personal Use Only