SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमोऽध्यायः अथोमास्वामिनंनत्वा पूज्यपादश्च योगिनम् । विद्यानन्दिनमाध्याय संवरं विवृणोम्यहम् ॥ १॥ आस्रवनिरोधः संवरः॥१॥ नूतनकर्मग्रहणकारणमानव उच्यते । आस्रवस्य निरोधः प्रतिषेधः आनवनिरोधः संपरो भवति । भावद्रव्यसंवरभेदात् संवरो द्विप्रकारः। तत्र भावसंघरः भवकारणपापक्रिया- ५ निरोधः । तथा चाऽभ्यधायि "वेदणपरिणामो जो कम्मस्सासवणिरोहणे हेदू । सो भावसंवरो खलु दव्यासवरोहणे अण्णो ॥" [ द्रव्यसं० गा० ३४] ..संसारकारणक्रियानिरोधे सति संसारकारणक्रियानिरोधलक्षणभावसंवरः । भावसंवरपूर्वको द्रव्यसंवरः। फर्मपुद्गलग्रहणविच्छेद इत्यर्थः। स उभयप्रकारोऽपि १० संवरः गुणस्थानापेक्षया उच्यते-मिथ्यात्वगुणस्थाने यत्कर्म आम्रवति तस्य कर्मणः सासादनसम्यग्दृष्टयादिशेषगुणस्थाने संवरो भवति । मिथ्यादर्शनप्रधात्वेन यत्कर्म आस्रवति, तत्किम् ? .. तत्षोडशप्रकृतिलक्षणम् । तत्रैकं तावन्मिथ्यात्वं द्वितीयो नपुंसकवेदः तृतीर्य नरकायुः चतुर्थी नरकगतिः पञ्चमी एकेन्द्रियजातिः षष्ठी द्वीन्द्रियजाति: सप्तमी त्रीन्द्रियजातिः अष्टमी चतुरिन्द्रियजातिः नवमं हुण्डकसंस्थानं दशममसम्प्राप्ता- १५ सृपाटिकासंहननमेकादशं नरकगतिप्रायोग्यानुपूयं द्वादश आतपः त्रयोदशः स्थावरः चतुर्दशः सूक्ष्मः पञ्चदशः अपर्याप्तकः पेडशं साधारणशरीरम् । असंयमस्तावत् त्रिविधो भवति । ते के यो विधाः ? अनन्तानुबन्धिकषायोदयः अप्रत्याख्यानकषायोदयः प्रत्याख्यानकषायोदयश्चेति त्रिविधासंयमहेतुकस्य कर्मणः संवरो ज्ञातव्यः। कस्मिन् सति ? तदभावे त्रिविधासंयमाभावे२ सति। स एव निरूप्यते-अनन्तानुबन्धिकषायोदयकल्पितासंयमास्रवाणां २० पञ्चविंशतिप्रकृतीनामे केन्द्रियादयः सासादनसम्यग्दृष्टिपर्यन्ता बन्धका भवन्ति । बन्धकाभावे तासामुत्तरत्र संवरो भवति । कास्ताः पञ्चविंशतिप्रकृतयः ? एका निद्रानिद्रा तिीया प्रवलाप्रचला तृतीया स्त्यानगृद्धिः अनन्तानुबन्धिक्रोधमानमायालोभाश्चत्वारः अष्टमः स्त्रीवेदः नवमं तिय्यंगायुः दशमो तिर्यग्गतिः चत्वारि मध्यसंस्थानानि चत्वारि मध्यसंहननानि एकोनविंशतितमा तिळग्गतिप्रायंग्य नुपूर्वी विंशतितम उद्योतः एकविंशतितमी अप्रशस्तविहा- २५ १ चेतनपरिणामो यः कर्मण आवनिरोधने हेतुः । स भावसंवरः खल द्रव्याखवरोधनेऽन्यः ॥ २-भावेऽपि भा०, ज०, द० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy