SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ तत्त्वार्थवृत्ती [२६. अतोऽन्यस्पापम् ॥ २६ ॥ अत एतस्मात् पुण्याभिधानकर्मप्रकृतिवृन्दात् यदन्यत् अन्यतरत् तत्कर्म पापं पापपदार्थ इत्यभिधीयते स द्वधशीतिप्रकार:-पञ्च ज्ञानावरणानि नव दर्शनावरणानि षट्विंशतिमोहनीयानि पश्चान्तरायाः नरकगतितिर्यग्गती ? एकद्वित्रिचतुरिन्द्रियजातयश्चतस्रः प्रथमसंस्थानवर्जानि पश्च संस्थानानि प्रथमसंहननपर्जानि पञ्चसंहननानि अप्रशस्तवर्णोऽप्रशस्तगन्धोऽप्रशस्तरसोऽ ५ प्रशस्तस्पर्शो नरकगतिप्रायोग्यानुषूयं तिर्यग्गतिप्रायोग्यानुपूर्व्यमुपघातोऽप्रशस्तविहायोगतिः स्थावरः सूक्ष्मः अपर्याप्तिः साधारणशरीरमस्थिरः अशुभो दुर्भगो दुःस्वर अनादेयोऽयशःकीर्तिरिति चतुस्त्रिंशन्नामप्रकृतयः। असा नरकायुर्नीचगोत्रञ्चेति पापं पापपदार्थो भवति । स उभयप्रकारोऽपि पुण्यपापपदार्थोऽवर्मनःपर्ययस्य केवलझानस्य च प्रत्यक्षप्रमाणत्रयस्य गोचरो गम्यो भवति तत्कथितागमस्य चानुमेयः स्यादिति भद्रम् । १० इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ अष्टमः पादः समाप्तः। १ इत्यनवद्यगद्यविद्याविनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थन तर्कव्याकरणछन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीदेवेन्द्रकीतिभट्टारकाशिष्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य विद्यानन्दिदेवस्य संछतिमिथ्यामतिदुर्गरेण अतसागरेण सूरिणा विरचितायां श्लोकवार्तिकराजवार्तिकसर्वार्थसिदिन्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रोप्रमुखमन्थसन्दर्भनिर्भरावलोकनबुद्धिविराजिताया तत्त्वार्थटीकायामष्टमोऽध्यायः समाप्तः । ८ । आ०, २०, ज.. For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy