________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२५]
अष्टमोऽध्यायः
कालविशेषो ज्ञातव्यः । ईदृग्विधाः प्रदेशाः कस्माद् भवन्ति ? योगविशेषात् । कायवाङ्मनः- कर्मलक्षणात् योगविशेषान योगविशेषकारणात जीवेन पुलाः कर्मत्वेन गृह्यन्ते । " "जोगा पयडिपदेशा ठिदिअणुभागा कसायदो होंति" [ गो० क० गा० २५७ ] इति वचनात् । पुनरपि कथम्भूतास्ते अनन्तानन्तप्रदेशाः ? सूक्ष्मैकक्षेत्रावगाहस्थिताः । एकं क्षेत्रमात्मन एकप्रदेशलक्षणं तस्मिन्नवगाह? अवकाशो येषां ते एक क्षेत्रावगाहाः, सूक्ष्माश्च ते एक क्षेत्रावगाहा- ५ श्च सूक्ष्मेकक्षेश्रावगाहाः सूक्ष्मैकक्षेत्रावगाहाश्च ते स्थिताः सूक्ष्मैकक्षेत्रावगाह स्थिताः । अस्यायमर्थः –— कर्मप्रदेशाः सूक्ष्मा वर्तन्ते न तु स्थूलाः । यस्मिन्नाकाशप्रदेशे आत्मप्रदेशो वर्तते तस्मिन्नेवाऽकाशप्रदेशेऽनन्तानन्ताः कर्मप्रदेशाः वर्तन्ते तेन एकक्षेत्रावगाहा इत्युच्यन्ते । स्थिता इत्युक्ते तस्मिन्नेव प्रदेशे कर्मयोग्यपुद्गलस्कन्धाः स्थिता वर्तन्ते न तु गच्छन्तः । अनन्तानन्तप्रदेशा इत्युक्ते सङ्घये याश्च असङ्घयेयाच अनन्ताश्च न भवन्ति । किन्तर्हि ? अनन्ता - १० नन्ताः | एक क्षेत्रावगाहा इत्युक्ते घनाङ्गुलस्यासङ्घ येयभागक्षेत्रावगाहिनो वर्तन्ते । अयन्तु विशेषः --- एक समयद्विसमयत्रिसमयचतुः समयेत्यादिसङ्घ ये यसमयासङ्घ ये यसमयस्थितिका भ वन्ति । पञ्चवर्णा भवन्ति । लवणरसस्य मधुररसान्तर्भावात् मधुराम्ल कटुतिक्तकषायलक्षणाः पश्चरसाः भवन्ति । सुरभिदुरभिद्विर्गन्धा भवन्ति । पूर्वोक्ताष्टस्पर्शाच भवन्ति ।
अथात्राह कश्चित्-बन्धपदार्थानन्तरं पुण्यपापपदार्थं द्रयकथनं पूर्वं चर्चितं तत्तु बन्ध- १५ पदार्थमध्ये अन्तर्गर्भितमिति समाहितमुत्तरप्रदानविषयीकृतम् । तत्र पुण्यबन्धः को वर्तते, कश्च पापबन्ध इति प्रश्ने पुण्यप्रकृतिपरिज्ञानार्थं सूत्रमिदमुच्यते
२७७
सद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥
आयुश्च नाम 'च गोत्रच आयुर्नामगोत्राणि शुभानि प्रशस्तानि तानि च तानि आयुर्नामगोत्राणि शुभायुर्नामगोत्राणि । सच्च समीचीनं सुखप्रदानसमर्थं वेद्यं सद्वेद्यम् । २० स शुभायुर्नामगोत्राणि च सद्वेद्य शुभायुर्नामगोत्राणि । एतानि चत्वारि कर्माणि पुण्यं भवन्ति । तथाहि - तिर्यगायुर्मनुष्यायुर्दे वायुस्त्रितयं शुभायुः । मनुष्यदेवगतिद्वयं पञ्चेन्द्रियजातिः पञ्चशरीराणि अङ्गोपाङ्गत्रितयं समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्त वर्णः प्रशस्तो रसः प्रशस्तो गन्धः प्रशस्तः स्पर्शः मनुष्यगतिप्रायोग्यानुपूर्व्यं देवगतिप्रायोग्यानुपूर्व्यमगुरुलघुः परघात उच्छ्वास आतप उद्योतः प्रशस्त बिहायो- २५ गतिः प्रसो बादरः पर्याप्तिः प्रत्येकशरीरं स्थिरः शुभः सुभगः सुस्वरः आदेयो यशः कीर्तिः निर्माणं तीर्थकर नाम एताः सप्तत्रिंशन्नामप्रकृतयः पुण्यमुच्यन्ते । उच्चैर्गोत्रं सद्यश्चेति द्वाचवारिंशत् प्रकृतयः पुण्यं पुण्यसंज्ञा भवन्ति ।
अथ पापपदार्थ परिज्ञानार्थ सूत्रमिदमुच्यते
For Private And Personal Use Only
१ योगात् प्रकृतिप्रदेशौ स्थित्यनुभागों कषायतो भवतः । २ - गाहे अव- आ०, ज० द० । ३ - स्पर्धा भवन्ति भ० ज० द० । ४ - उत्तर प्रदानं वि- ता० द० ।