________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६ तत्त्वार्थवृत्ती
[८।२४ ततस्तस्माद्विपाकादनन्तरमात्मने पीडानुग्रहदानानन्तरं दुःखसुखदानानन्तरं निर्जरा भवति पूर्वस्थितेः' प्रक्षयात् अवस्थानाभावात्कर्मणो निवृत्तिर्भवति उपार्जितकर्मत्यागो भवति एकदेशेन क्षयो भवतीत्यर्थः । अथवा ततस्तस्मात्फलदानलक्षणात्कारणान्निर्जरा भवति । किंवत् ? भुक्तान्नपानादिविकारवत् । विण्मूत्रादिविकारवत् पततीत्यर्थः। सा निर्जरा द्विधा ५ भवति–सविपाका अविपाका चेति । तत्र चतुर्गतिभवमहासमुद्रे एकेन्द्रियादिजीवविशेषः अवधूर्णिते नानाजातिभेदैः सम्भृते दीर्घकालं पर्यटतो जीवस्य शुभाशुभस्य क्रमपरिपाककालप्राप्तस्य कर्मोदयावलिप्रवाहानुप्रविष्टस्य आरब्धफलस्य कर्मणो या निवृत्तिः सा सविपाकनिर्जरा कथ्यते । यच्च कर्म विपाककालमप्राप्तमनुदीर्णमुदयमनागतम् उपक्रमक्रियाविशेषबलादुदीर्य
उदयमानीय आस्वाद्यते सहकारफलकदलीफलकण्टकिफलादिपाकवत् बलाद्विपाच्य भुज्यते सा १० अविपाकनिर्जरा कथ्यते । चकारात् “तपसा निर्जरा च" [त० सू० ९।३ ] इति वक्ष्यमाण
सूत्रार्थो गृह्यते । अयमत्र भावः-निर्जरा स्वतः परतश्च भवतीति सूत्रार्थो वेदितव्यः। संवरादनन्तरं वक्ष्यमाणाऽपि निर्जरा उद्देशलघ्वर्थमिह गृह्यते । अन्यथा "विपाकोऽनुभव" [२० सू० ८।२१ ] इति सूत्रं पुनरप्यनुवदितुं योग्यं भवति ।
अथ प्रदेशबन्धस्वरूपं निरूप्यते
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्मैकक्षेत्रावगाह___ स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४ ॥
नामेत्युक्ते विश्वकर्मप्रकृतय उच्यन्ते। नाम्नः सर्वकर्मप्रकृतिसमूहस्य प्रत्ययाः हेतवः नामप्रत्ययाः ईदृग्विधाः । के ? अनन्तानन्तप्रदेशाः। अनन्ताः सन्तः अनन्तगुणाः अनन्ता
नन्ताः अनन्तानन्ताश्च ते प्रदेशा अष्टधा कर्मप्रकृतियोग्यपुद्गलस्कन्धाः अनन्तानन्तप्रदेशाः ते २० खलु अभव्येभ्योऽनन्तगुणाः । कोऽर्थः ? अभव्यास्तावदनन्ता वर्तन्ते तेभ्य अनन्तगुणा
अनन्तानन्ता इत्युच्यन्ते। परन्तु सिद्धानामनन्तभागप्रमाणा वर्तन्ते। ईग्विधाः कर्मयोग्यपुद्गलस्कन्धाः क वर्तन्ते ? सर्वात्मप्रदेशेषु । सर्वे च ते आत्मनः प्रदेशाः सर्वात्मप्रदेशास्तेषु सर्वात्मप्रदेशेषु । एकैकस्मिन्नात्मनः प्रदेशे अनन्तानन्ताः कर्मप्रकृतियोग्यपुगलस्कन्धा वर्तन्ते इत्यर्थः । ईड
ग्विधाः कर्मप्रदेशाः आत्मप्रदेशान्तमूर्ध्वमधस्तात्तिर्यक् च वर्तन्त इत्यर्थः। ईदृग्विधाः कर्मप्रदेशाः २५ केषु कालेषु वर्तन्ते ? सर्वतः। सर्वेषु भवेषु सर्वतः । “सार्वविभक्तिकस्तस् इत्येके" [ !
इति वचनात् पञ्चम्यास्तस् इति नाशङ्कनीयम् । तेनात्र सप्तम्यर्थे तस्प्रत्ययो वेदितव्यः । तेनायमर्थः- एकैकस्य प्राणिनोऽतीता भवा अनन्तानन्ता भवन्ति भविष्यन्तस्तु भवा कस्यचित्
सङ्ख्यया भवन्ति कस्यचिदसङ्ख्यया भवन्ति कस्यचिदनन्ताश्च भवा भवन्ति । तेषु सर्वे- ध्वपि भवेषु प्रत्येकमनन्तानन्ताः कर्म प्रदेशा. प्रतिप्राणि प्रत्यात्मप्रदेशं भवन्तीति सर्वतःशब्देन
१ -स्थितिप्र- आ०, ज०. द०। २ चतुर्गतौ भव- ता० ।
For Private And Personal Use Only