SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८२१-२३] अष्टमोऽध्यायः विपाकोऽनुभवः । २१ विशिष्टो विविधो वा पाक उदयः विपाकः, यो विपाकः स अनुभव इत्युच्यते अनुभागसञ्ज्ञकश्च' । तत्र विशिष्टः पाक आत्रवाध्यायप्रोक्ततीत्रमन्दमध्यमभाषास्त्रवविशेषाद्वेदितव्यः । द्रव्यक्षेत्रकालभत्रभावलक्षण कारण भेदोत्पादित नानात्वो विविधोऽनुभवो ज्ञातव्यः । अनुभव इति कोऽर्थः ? आत्मनि फलस्य दानं कर्मदत्तफलानामात्मना स्वीकर ५ णमित्यर्थः । यदा शुभपरिणामानां प्रकर्षो भवति तदा शुभप्रकृतीनां प्रकृष्टोऽनुभवो भवति, अशुभप्रकृतीनां तु निकृष्टोऽनुभवो भवति । यदा अशुभ परिणामानां प्रकर्षो भवति तदा अशुभप्रकृतीनां प्रकृष्टोऽनुभवो भवति, शुभप्रकृतीनां तु निवृष्टोऽनुभवो भवति । सोऽनुभवोऽमुना प्रकारेण प्रत्ययवशात् परिणामकारणवशात् स्वीकृतो द्विप्रकारो भवति -- स्वमुखपरमुखभेदात् । तत्र सर्वमूलप्रकृतीनामनुभवः स्वमुखेनैव भवति । कथम् ? मतिज्ञानावरणं मतिज्ञाना- १० वरणरूपेणैव भवति । उत्तरप्रकृतीनां सदृशजातीयानां परमुखेनापि भवति परन्तु आयु:कर्मदर्शनमोह चारित्रमोहान् वर्जयित्वा । कथम् १ यदा जीवो नरकायुर्भुङ्क्ते तदा तिर्यगाथुमंनुव्यायुर्देवायुर्वा न भुङ्क्ते । तेन आयुः प्रकृतयः तुल्या अपि स्वमुखेनैव भुज्यन्ते न तु परमुखेन । तथा दर्शनमोहं भुजानः पुमान् चारित्रमोहं न भुङ्क्ते । चारित्रमोह भुब्जानः पुमान् दर्शनमोहं न भुङ्के । एवं तिसृणां प्रकृतीनां तुल्यजातीयानामपि परमुखेनानुभवो न भवति । १५ अत्राह कश्चित् पूर्वोपार्जितानेकविधव मं विपाकोऽनुभव इत्युच्यते तं जानीमो वयम्, एतत्तु न विद्मो वयम् । एतत् किम् ? अयमनुभवः किं प्रसङ्ख्यातोऽन्वर्थो वर्तते अप्रयातोऽनन्वर्थो वा इति प्रश्ने आचार्यः प्राह-प्ररुयातः प्रकृतीनां नामानुसारेणानुभवो भुज्यते इत्यर्थप्रकटनार्थं सूत्रमिदमाहुः -- Acharya Shri Kailassagarsuri Gyanmandir १ - संज्ञश्च भ० ज० द० । २ अथाह ता० । स यथानाम ॥ २२ ॥ स अनुभवः प्रकृतिफलं जीवस्य भवति । कथम् ? यथानाम प्रकृतिनामानुसारेण । तेन ज्ञानावरणस्य फलं ज्ञानाभावो भवति सविकल्पस्यापि । एवं सर्वत्र सविकल्पस्य कर्मणः फलं सविकल्पं ज्ञातव्यम् । दर्शनावरणस्य फलं दर्शनशक्तिप्रच्छादनता । वेदनीयस्य फलं सुखदुःखप्रदानम् । मोहनीयस्य फलं मोहोत्पादनम् । आयुषः फलं भवधारणलक्षणम् । नाम्नः फलं नानानामानुभवनम् । गोत्रस्य फलं नीचत्वोच्चत्वानुभवनम् । अन्तरायस्य फलं विघ्नानु- २५ भवनम् । एवमष्टानामपि कर्म प्रकृतीनां सविकल्पानां रसानुभवन सम्प्रत्ययः सब्जायते । अथाह कश्चित् - विपाकः खलु अनुभवः आक्षिप्यते अङ्गीक्रियते प्रतिज्ञायते भवद्भिः तच्च कर्म अनुभूतमास्वादितं सत् किमाभरणमिवावतिष्ठने अथवा निष्पीतसारमास्वादितसामर्थ्यं सत् गलति पतति प्रच्यवते इति प्रश्ने सूत्रमिदमुच्यते— ततश्च निर्जरा ॥ २३ ॥ For Private And Personal Use Only २७५ २० ३०
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy