________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४ तत्त्वार्थवृत्ती
[८११७-२० पमाणां सप्तभागाः क्रियन्ते तन्मध्ये द्वौ भागौ गृह्येते त्रीन्द्रियाणां नामगोत्रयोः परा स्थितिर्भवति शतसागर.णां सप्तभागाः क्रियन्ते तन्मध्ये द्वौ भागौ गृह्यते । चतुरिन्द्रियाणां नामर्गत्रयोः परा स्थितिर्भवति । सहस्रसागराणां सप्तभागाः क्रियन्ते सन्मध्ये द्वौ भागौ गृपते असब्ज्ञिपन्चेन्द्रियाणां नामगोत्रयोः परा स्थितिर्भवति । अपर्याप्तद्वित्रिचतुरसब्ज्ञिपञ्चेन्द्रियाणां द्वौ द्वावेव ५ भागौ परं पल्योपमाऽसङ्घथे यभागहीनो वेदितव्यो। अथायुषः प्रकृते हत्कृष्टा स्थितिः 'प्रतिपाद्यते
त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ त्रयस्त्रिंशच्च तानि सागरोपमाणि त्रयस्त्रिंशतूसागरोपमाणि आयुषः परा उत्कृष्टा स्थितिर्भवति। कोटीकोटथ इति न प्राह्य पुनः सागरोपमप्रहणात् । एषापि स्थितिः पन्चे१० न्द्रियस्य सब्जिनः पर्याप्तकस्य वेदितव्या। असब्जिनः आयुषः स्थितिः पल्योपमासङ्खच यभागो
भवति । कस्मात् ? यतः असज्ञिपञ्चेन्द्रियः तिर्यक स्वर्गे नरके वा पल्योपमाऽस्य यभागमायुर्बध्नाति । एकेन्द्रियविफलेन्द्रियास्तु पूर्वकोटीप्रमाणमायुबद्ध्वा 'पश्चाद्विदेहादावुत्पद्यन्ते । अथेदानीमष्टानां प्रकृतीनां जघन्या स्थितिरुच्यते
अपरा बादशमुहूर्ता वेदनीयस्य ॥ १८ ॥ १५ वेदनीयम्य कर्मण अपरा जघन्या स्थिति दशमुहूर्ता भवति । चतुर्विंशतिघटिका
प्रमाणा इत्यर्थः । एतां स्थिति सूक्ष्मसाम्परायगुणस्थाने बनातीति वेदितव्यम् । प्रकृतीनामनुक्रमोल्लानं सूत्राणां लघुत्वार्थ ज्ञातव्यम् । अथ नामगोत्रयोः जघन्यस्थितिप्रतिपत्त्यर्थं सूत्रमिदमुच्यते
नामगोत्रयोरष्टौ ॥ १९॥ २० नाम च गोत्रच नामगोत्रे तयोर्नामगोत्रयोरष्टौ मुहूर्ताः षोडशघटिका जघन्या स्थितिर्भवति । इयमपि स्थितिर्दशमगुणस्थाने वेदितव्या ।
अथेदातीमुद्धरितपश्चप्रकृतीनां जघन्यस्थितिकथनार्थ सूत्रमिदमाहुः- शेषाणामन्तमुहूर्नाः॥२०॥
शेषागां ज्ञानावरणदर्शनावरणान्तरायमोहनीयायुषां जघन्या स्थितिरन्तमहूर्ता २५ अन्तर्मुहूर्तप्रमाणा भवति । तत्र ज्ञानदर्शनावरणान्तरायाणां निकृष्टा स्थितिः सूक्ष्मसाम्पराये
ज्ञातव्या । मोहनीयस्य अनिवृत्ति करणगुणस्थाने बादरसाम्परायगुणस्थानाऽपरनाम्नि बोद्धव्या । आयुषो जघन्या स्थितिः सङ्ख्ययवर्षायुःषु तिर्यक्षु मनुष्टेषु चावसेया। · अथेदानी तृतीयस्य बन्धस्य अनुभवाम्नः स्वरूपनिरूपणार्थ सूत्रमिदमुच्यते--
१ प्रतिपद्यते आ०, ज०, द० । २-देहे उत्प- भा०, ज०, द०। ३ -स्याने च वेदि-आ०, ज०. द० । ४ पावसेया मा०, ज०, ८०१
For Private And Personal Use Only