________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.१५-१६] अष्टमोऽध्यायः
२७३ "एइंदियवियलिंदियसयलिंदियासण्णिअपज्जत्तयाण बोधव्वा । एक तहप्पणवीसं पंचासं तह सयं सहस्सं च ॥
"तिहयं सत्तविहत्त सायरसंखा ठिदी एसा ।"[पञ्चसं० १११८६ ] अथेदानी मोहनीयस्योत्कृष्टस्थितिं प्राह
सप्ततिर्मोहनीयस्य ॥ १५ ॥ मिथ्यादृष्टेः पञ्चेन्द्रियस्य सञ्जिनः मोहनीयस्य कर्मणः सप्ततिः सागरोपमकोटीकोटयः परा उत्कृष्टा स्थितिर्भवति । एषा स्थितिश्चारित्रमोहनीयापेक्षया भवति । दर्शनमोहनीयापेक्षया तु चत्वारिंशत्सागरोपमकोटीकोटथो वेदितव्याः । परेषां परमागमादवसेयम् । कोऽसौ परमागम इति चेद् ? उच्यते ; पर्याप्तकद्वित्रिचतुरिन्द्रियाणामेकपञ्चविंशतिपञ्चाशत् शतसागरोपमाणि । तेषामपर्याप्तानामपि तान्येव, परन्तु पल्योपमाऽस- १० सयेयभागोनानि। पर्याप्तासज्ञिपञ्चेन्द्रियस्य सागरोपमसहस्रं तस्यैवापर्याप्तस्य तदेव परन्तु पल्योपमासङ्ख्येयभागोनम् । तथा चोक्तम्
"एक पणवीसंपि य पंचासं तह सयं सहस्सं च। ताणं सायरसंखा ठिदी एसा मोहणीयस्स ॥" [ ]
अयन्तु विशेषो मोहनीयस्येयं स्थितिः सप्तगुणा सप्तहता च कर्तव्या । कोऽर्थः? पूर्ववत् १५ सागराणां सप्तभागान् कृत्वा त्रयो भागा न गृहीतव्याः किन्तु एकसागरः परिपूर्णः पञ्चविंशतिसागराः परिपूर्णाः पञ्चाशत्सागराः परिपूर्णाः शतसागराः परिपूर्णाः सहस्रसागराश्च परिपूर्णाः गृह्यन्ते इत्यर्थः। अथेदानी नामगोत्रयोरत्कृष्टस्थितिरुच्यते
विंशतिर्नामगोत्रयोः ॥ १६ ॥ नाम च गोत्रञ्च नामगोत्रे तयोर्नामगोत्रयोः नामगोत्रयोः प्रकृत्योविंशतिः सागरोपमकोटीकोट्यः परा उत्कृष्टा स्थितिर्भवति । एषापि मिथ्यादृष्टेः पञ्चेन्द्रियस्य पर्याप्तस्य सचिनो वेदितव्याः । पर्याप्तकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसज्ञिपञ्चेन्द्रियाणामेकं पञ्चविंशतिः पञ्चाशत् शतं सहस्रब्चानुक्रमेण सागरोपमानि यानि पूर्वमुक्तानि तेषां सप्तसप्तभागीकृतानां द्वौ द्वौ भागौ गृह्यते । तथाहि-एकसागरोपमस्य सप्तभागाः क्रियन्ते तेषां मध्ये २५ द्वी भागौ एकेन्द्रियाणां नामगोत्रयोः परा स्थितिर्भवति । पञ्चविंशतिसागराणां सप्तभागाः क्रियन्ते तन्मध्ये द्वौ भागो गृह्यते । द्वीन्द्रियाणां नामगोत्रयोः परा स्थितिर्भवति। पञ्चाशत्सागरो
१ एकेन्द्रियविकलेन्द्रियसकलेन्द्रियासंज्यपर्याप्त कानां बोद्धव्या। एक तथा पञ्चविंशतिः पञ्चाशत् तथा शतं सहस्रच ॥ त्रिशतं सप्तविभक्तं सागरसंख्या स्थितिरेषा ।। २ एकं पञ्चविंशतिश्च पञ्चाशत तथा शतं सहस्रञ्च | तासां सागरसंख्या स्थितिरेषा मोहनीयस्य॥
For Private And Personal Use Only