SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ तत्त्वार्थवृत्तौ [८।१२-१४ अथ गोत्रस्योत्तरप्रकृती उच्यते उच्चैर्नीचैश्च ॥१२॥ यदुदयेन सर्वलोकपृजिते इक्ष्वाकुवंशे सूर्यवंशे सोमवंशे नाथवंशे कुरुवंशे हरिवंशे उग्रवंशे इत्यादिवंशे जीवस्य जन्म भवति तदुच्चैोत्रमुच्यते। यदुदयेन निन्दिते दरिद्रे ५ भ्रष्टे इत्यादिकुले जीवस्य जन्म भवति तन्नीचर्गोत्रम् । चकारः परस्परसमुच्चये वर्तते । तेनायमर्थः-न केवलमुच्चैर्गोत्रं नीचैश्च गोत्रम् । गोत्रप्रकृतेरुत्तरप्रकृती द्वे भवतः । अथेदानीमन्तरायप्रकृतेरुत्तरप्रकृतय उच्यन्ते-- दानलाभभोगोपभोगवीर्याणाम् ॥१३॥ दानस्यान्तराये दातुमिच्छुरपि दातुं न शक्नोति लाभस्यान्तराये लब्धुमनाअपि न लभ१० ते भोगस्यान्तराये भोकुकामोऽपि न भुक्ते उपभोगस्यान्तराये उपभोक्तुमिच्छन्नपि नोपभुङ्क्त वीर्यस्यान्तराये उत्साहमुद्यम चिकीर्षुरपि नोत्सहते। एते पञ्च भेदा अन्तरायप्रकृतेरुत्तरप्रकृतिभेदाः भवन्ति । अत्र समासशुद्धिः। दानञ्च लाभश्च भोगश्चोपभोगश्च वीर्यश्च दानलाभभोगोपभोगवीर्याणि तेषां दानलाभभोगोपभोगवीर्याणां पञ्चानां पश्चान्तरायाः पञ्चोत्तरप्रकृतयो भवन्तीति क्रियाकारकसम्बन्धः । इति प्रकृतिबन्धस्वरूपं समाप्तम् । १५ अथ स्थितिबन्धस्वरूपमुच्यते आदितस्तिमृणामन्तरायस्य च त्रिंशत्सागरोपम कोटीकोटयः परा स्थितिः ॥१४॥ आदितः ज्ञानावरणमारभ्य वेदनीयं यावत् तिसृणां ज्ञानावरणदर्शनावरणवेदनीयलक्षणानां प्रकृतीनामन्तरायस्य चाष्टमस्य कर्मणः सागरोपमानां कोटीनां कोट्यः त्रिंशत् २० परा उत्कृष्टा स्थितिर्भवति । सा स्थितिः कीदृशस्य जीवस्य भवति ? मिथ्यादृष्टेः पञ्चेन्द्रियस्य सब्जिनः पर्याप्तकस्य ज्ञातव्या । अन्येषामेकेन्द्रियादीनां परमागमात् सम्प्रत्ययो विधातव्यः सम्यकप्रतीति:या। परमागमे एकेन्द्रियादीनां कीदृशी स्थितिः चतुण्णां कर्मणामिति चेत ? उच्यते; एकेन्द्रियपर्याप्तकस्य लग्नानामेकसागरोपमस्य सप्तभागीकृतस्य त्रयो भागा भवन्ति । द्वीन्द्रियपर्याप्तकस्य पञ्चविंशतिसागरोपमानां सप्तभागीकृतानां त्रयो भागा भवन्ति । त्रीन्द्रि२५ यार्याप्तकस्य पञ्चाशत्सागरोपमाणां सप्तभागीकृतानां त्रयो भागा भवन्ति । चतुरिन्द्रिय पर्याप्तकस्य सागरोपमशतस्य सप्तभागीकृतस्य त्रयो भागा भवन्ति । असब्झिपञ्चेन्द्रियपर्याप्तकस्य सागरोपमसहस्रस्य सप्तभागीकृतस्य त्रयो भागा भवन्ति । सज्ज्ञिपञ्चेन्द्रियापर्याप्तकत्य 'अन्त:त्रिंशत्सागरोपमकोटीकोट्यः भवन्ति । अपर्याप्तकेन्द्रियद्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणां पर्याप्तैकेन्द्रियादिदत्ता एवरे भागा भवन्ति । परन्तु ३० पल्योपमाऽसङ्ख्य यभागोना वेदितव्याः इति परमागमात् सम्प्रत्ययः । उक्तञ्च १ अन्तःसा- आ०,द., ज०। २ एकभागा ता० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy