________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१
८।११]
अष्टमोऽध्यायः धातो भवति तत्परघातनाम। यदुदयेन आदित्यवदातापो भवति तदातपनाम । यदुदयेन चन्द्रज्योतिरिङ्गणादिवत् उद्योतो भवति तदुद्योतनाम । यदुदयेन उच्छ्वासो भवति तदुन्छ्वासनाम । यदुदयेन आकाशे गमनं भवति सा विहायोगतिः द्विप्रकारा-गजवृषभहसमयूरादिवत् प्रश तविहायोगतिनाम। खरोष्टमार्जारकुर्कुरसादिवत् अप्रशस्तविहायोगतिनाम। शरीरनामकर्मोदयेन निष्पाद्यमानं शरीरमेकजीवोपभोगकरणं यदुदयेन भवति तत्प्रत्येकशरीरनाम । यदुदयेन ५ बहूनां जीवानामुपभोगहेतुः शरीरं भवति तत्साधारणशरीरनाम । उक्तञ्च
""साहारणमाहारो साहारणआणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥" [ पञ्चसं० ११८२] "गूढसिरसंधिपच्चं समभंगमहीरुहं च छिण्णरुहं । साहारणं सरीरं तविबरीयं च पत्तेयं ॥ कंदे मूले बल्लीपवालसदुलयकुसुमफलबीए । समभंगे तदणंता विसमे सदि होति पत्तेया ॥ [ गो० जी० गा० १८६-८७ ]
यदुदयेन द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियेषु जन्म भवति तत्त्रसनाम । यदुदयेन पृथिव्यप्तेजोवायुवनस्पतिकायेषु २ एकेन्द्रियेषूत्पद्यते तत्स्थावरनाम । यदुदयेन जीवः परप्रीतिजनको भवति दृष्टः श्रुतो वा तत्सुभगनाम । यदुदयेन रूपलावण्यगुणसहितोऽपि दृष्टः श्रुतोवा परेषाम- १५ प्रीतिजनको भवति तदुर्भगनाम। यदुदयेन चित्तानुरञ्जकस्वर उत्पद्यते तत्सुस्वरनाम। यदुदयेन खरमार्जारकाकादि-वरवत् कर्णशूलप्रायः स्वर उत्पद्यते तदुःस्वरनाम । यदुदयेन रमणीयो भवति तच्छुभनाम। यदुदयेन विरूपको भवति तदशुभनाम। यदुदयेन सूक्ष्म शरीरं भवति तत्सूक्ष्मनाम। यदुदयेन परषां बाधाकर बाध्यञ्च शरीरं भवति तद्बादरनाम । यदुदयेन आहारकशरीरेन्द्रियानपानभाषामनोलक्षणाः षट्पर्याप्तयः उत्पद्यन्ते तत्पर्याप्तिनाम । यदुदयेन अपरिपूर्णोऽपि जीवो २० म्रियते तदपर्याप्तिनाम । स्थिरत्वकारकं स्थिरनाम। अस्थिरभावकारकमस्थिरनाम । प्रभावयुक्तशरीरकारकमादेयनाम । प्रभारहितशरीरकारकमनादेयनाम । पुण्यगुणकीर्तनकारणं यशःकीर्तिनाम । पापदोषप्रकटन कारणमयशःकीर्तिनाम । आर्हन्त्यकारणं तीर्थकरत्वनाम । एवं द्वाचत्वारिंशत् पिण्डप्रकृतयः नामकर्मणो भवन्ति विस्तरतस्त्रिनवतिः । अत्र द्विविधमपि निर्माणनाम कर्म एका प्रकृतिरिति ज्ञातव्यमेवं त्रिनवतिर्भवन्ति ।
१ साधारणमाहारः स धारणमानापानग्रहणञ्च । साधारणजीवानां साधारणलक्षणम् एतत् ।। गृढशिरःसन्धिपर्व समभङ्गमहीरुहं च छिन्नरुहम् । साधारणं शरीरं तद्विपरीतञ्च प्रत्येकम ।। कन्दे मूले त्वक्पालशाखादलकुसुमफलबीजे। समभङ्गे तदनन्ताः विषमें सति भवन्ति प्रत्येकाः । २ -पु उत्यभा०.९०, ज०३-कारण आ०, द०, ज०।४-कारकम् मा०. द०, ज०।५-२ता कारक- . आ०,९०, ज०।
For Private And Personal Use Only