________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७० तत्त्वार्थवृत्तौ
[८।११ नाराचसंहननं नाम । तद्वलयरहितं वननाराचसंहननं नाम । वज्राकारेण वलयेन चरहितं सनाराचं नाराचसंहननं नाम । एकास्थिसनाराचमन्यत्रानाराचमर्धनाराचसंहननं नाम । उभयास्थिपर्यन्ते कीलकसहितं कीलिकासंहननं नाम । अन्तरनवाप्तान्योन्यास्थिसन्धिकं बाह्ये सिरास्नायुमांस
वेष्टितमसंप्राप्तासृपाटिकासंहननं नाम । असंप्राप्तामृपाटिकासंहननः आदितश्चतुःस्वर्गयुगलान्तं ग५ च्छति । कीलिकार्धनाराचसंहननः शेषचतुर्युगलपर्यन्तं गच्छति । नाराचसंहननो नवौवेय
कपर्यन्तं गच्छति । वज्रनाराचसंहननो नवानुदिशपर्यन्तं गच्छति । वस्त्रनाराचसंहननो नवानुदिशपर्यन्तं गच्छति । वर्षभनाराचसंहननः पञ्चानुत्तरं मोक्षश्च गच्छति । धर्मा वंशा मेघा अं. जना अरिष्टा मघवी माघवी इति सप्तनरकनामानि । तत्र मेघायाः शिला इत्यपरनाम । तत्र षट्संह
ननः संज्ञो जीवः मेघान्तं ब्रजति । सप्तमनरकं वर्षभनाराचसंहननो गच्छति । षष्ठं नरक१० मर्धनाराचपर्यन्तो गच्छति । कीलिकान्तसंहननः पञ्चमं चतुर्थञ्च नरकं गच्छति ।
एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु असंप्राप्तासृपाटिकासंहननं भवति । वर्षभनाराचसंहननं त्वसंङ्ख्येयवर्षायुष्केषु भवति । चतुर्थकाले षट्संहननानि भवन्ति । पञ्चमकाले त्रीणि संहननानि भवन्ति । षष्ठकाले एकमसंप्राप्तामृपाटिकासंहननं
भवति । विदेहेषु विद्याधरक्षेत्रेषु म्लेच्छखण्डेषु च मनुष्याणां तिरश्वाञ्च षट्संहननानि १५ वेदितव्यानि । नागेन्द्रपर्वतात परतस्तिरश्चां च षट्संहननानि भवन्ति। कर्मभूमिजानां स्त्रीणा
मर्धनाराचकीलिकासंप्राप्तामृपाटिकासंहननत्रयं भवति, आदिसंहननत्रयं न भवतीति निश्चयः । आदिसप्तगुणस्थानेषु षट्संहननानि भवन्ति । अपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायोपशान्तकषायलागेषुच चतुषु उपशमश्रेणिसम्बन्धिगुणस्थानेषु आदिसंहननत्रयं भवति ।
क्षपकश्रेणौ अपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायक्षीणकषायसयोगकेवलिलक्षणेषु पञ्चगुण२० स्थानेषु आदिसंहननमेव भवति ।
"अथ स्पर्शादिप्रकृतिविचारः क्रियते यत्पान स्पर्श उत्पद्यते स स्पर्श अष्टप्रकारोभवति कर्कशनाम कोमलनाम गुरुनाम लघुनाम स्निग्धनाम रूक्षनाम शीतनाम उष्णनाम । यदुदयेन रसभेदो भवति स रसः पञ्चप्रकारः-तिक्तनाम कटुकनाम कषायनाम अग्लनाम मधुरनाम ।
यदुदयेन गन्धो भवति स गन्धो द्विप्रकार:-सुरभिगन्धनाम दुरभिगन्धनाम । यदुदयेन वर्णभेदो २५ भवति स वर्णः पञ्चप्रकारः-कृष्णवर्णनाम नीलवर्णनाम रक्तवर्णनाभ पीतवर्णनाम शुक्लवर्ण
नाम । यदुदयेन पूर्वशरीराकार ( कारा ) नाशो भवति तदानुपूयं चतुःप्रकारम्-नरकगतिप्रायोग्यानुपूर्व्यनाम तिर्यग्गतिप्रायोग्यानुपूर्व्यनाम मनुष्यगतिप्रायोग्यानुपूर्व्यनाम देवगतिप्रायोग्यानुपूर्व्यनाम । यदुदयेन लोहपिण्डवत् गुरुत्वेनाधो न भ्रश्यति अर्कतूलवल्लघुत्वेन यत्र तत्र नोड्
डीयते च तत् अगुरुलघुनास । यदुदयेन स्वयमेव गले पाशं बद्ध्वा वृक्षादौ अवलम्ब्य उद्वे३० गान्मरणं करोति प्राणापाननिरोधं कृत्वा म्रियते इत्येवमादिभिरनेकप्रकारैः शस्त्रघातभृगुपाताग्निझम्पापातजलनिमज्जनविषभक्षणादिभिरात्मघातं करोति तदुपघातलाम । यदुदयेन परशस्त्रादिना
१ सप्तमं न- द० । २ षष्टं नरकपर्यन्तमद्धनाराचसंहननो गच्छति द० । ३ च नास्ति द०मा०, ४ च नास्ति आ०,द० ।५ अद्य आ०,६०।६ उत्साद्यते आ०,९०।
For Private And Personal Use Only