SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८११ अष्टमोऽध्यायः २६९ स्तहेवगतिनाम । नरकादिगतिषु अव्यभिचारिणा सदृशत्वेन एकीकृतोऽर्थात्मा' जातिरुच्यते । सा पश्चप्रकारा-एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चन्द्रियजातिनाम । यदुदयाज्जीव एकेन्द्रिय इत्युच्यते तदेकेन्द्रियजातिनाम । यदुदयादात्मा द्वीन्द्रिय इत्यभिधीयते तद्द्वीन्द्रियजातिनाम। यदुदयाज्जीवस्त्रीन्द्रिय इति शब्द्यते तत्त्रीन्द्रियजातिनाम । यदुदयाज्जन्मी चतुरिन्द्रिय इत्यभिधीयते तच्चतुरिन्द्रियजातिनाम । यदुदयात्- ५ प्राणी पञ्चेन्द्रिय इति कथ्यते तत्पश्चन्द्रियजातिनाम । यदुदयाज्जीवस्य कायनिवृत्तिर्भवति तच्छरीरं पञ्जप्रकारम् -औदारिकवक्रियिकाहारकतैजसकार्मणशरीरभेदात् । यदुदयादङ्गोपाङ्गव्यक्तिर्भवति तदङ्गोपाङ्ग त्रिप्रकारम्-औदारिकशरीराङ्गोपाङ्ग नाम। वैक्रियिकशरीराङ्गोपाङ्गनाम । आहारकशरीराङ्गोपाङ्गनाम । तैजसकार्मणयोः शरीरयोरङ्गोपाङ्गानि न सन्ति तेन अङ्गोपाङ्ग त्रिप्रकारम् । किमङ्गं किमुपाङ्गमिति चेत् ? उच्यते 3"णलया बाहू य तहा णियंबपुट्ठी उरो य सीसं च । अद्वैव दु अंगाई सेस उवंगाई देहस्स ॥" [ कम्मप० ७४ ] ललाटकर्णनासिकानेत्रोत्तराधरोष्ठाङ्गुलिनखादीनि उपाङ्गान्युच्यन्ते । यदुदयात्परिनिष्पत्तिर्भवति-तन्निर्माणं द्विप्रकारं जातिनामकर्मोदयापेक्षं ज्ञातव्यम् । स्थाननिर्माण प्रमाणनिर्माणं चक्षुरादीनां स्थानं सङ्ख्याञ्च निर्मापयति । निर्मीयतेऽनेनेति निर्माणम् । "यथा नासि- १५ का नासिकास्थाने एकैक (व) भवति नेत्रे नेत्रयोः स्थाने द्वे एव भवतः कर्णौ कर्णयोः स्थाने द्वावेच भवतः । एवं मेहनस्तनजघनादिषु ज्ञातव्यम् । शरीरनामकर्मोदयाद् गृहीतानां पुद्गलानां परस्परप्रदेशसंश्लेषणं बन्धनमुच्यते। तदपि पञ्चप्रकारम्-औदारिकशरीरबंधनं नाम । चैक्रियिकशरीरबन्धनं नाम । आहारकशरीरबन्धनं नाम। तेजसशरीरबन्धनं नाम । कार्मणशरीरबन्धनं नाम। यन्निमित्ताच्छरीराणां छिद्ररहितपरस्परप्रदेशप्रवेशादेकत्वभवनं भवति स सङ्घातः २० पञ्चप्रकार:-औदारिकशरीरसङ्घातनाम । वैक्रियकशरीरसङ्घातनाम । आहारकशरीरसङ्घातनाम । तेजसशरीरसङ्घातनाम । कार्मणशरीरसातनाम। यत्प्रत्ययात् शरीराकृतिनिष्पत्तिर्भवति तत्संस्थान षट्प्रकारम् । अर्ध्व मध्ये (ऊर्ध्वमध्ये ) मध्ये च समशरीरावयवसन्निवेशव्यवस्थाविधायक समचतुरस्रसंस्थानं नाम। नाभेरूवं प्रचुरशरीरसन्निवेशःअधस्तु अल्पशरीरसंन्निवेशो न्यग्रोधपरिमण्डलसंस्थानं नाम । तस्माद्विपरीतसंस्थानविधायकं स्वातिसंस्थानं वल्मीकापरनामधेयम् । २५ 'पृष्ठप्रदेशे बहुपुद्गलप्रचयनिर्मापकं कुब्जसंस्थानं नाम | विश्वाङ्गोपाङ्गाल्पत्वजनक हस्वत्वकारकं वामनसंस्थानं नाम।अवच्छिन्नावयवं हुण्डसंस्थानं नाम । यदुदयात् अस्थनां बन्धनविशेषो भवति तत्संहननं षट्प्रकारम् । वनाकारोभयास्थिसन्धिमध्ये सवलयबन्धनं सनाराचं वनवृषभ १ अर्थो जीवपदार्थः -110 टि० । २ जन्तुस्त्री-ना० । ३ नलको बाहू च तथा नितम्बपृष्ठे उरश्च शीर्षञ्च । अष्टैव तु अङ्गानि शेषाणि उपाङ्गानि देहस्य ॥ ४-नोत्युच्यन्ते आ०, द०, ज० । ५ तथा भा०, ६०, ज०। ६ एवं स्तन- आ०, द०, ज० । ७ स्वातिकसं- आ०, द० ज० । ८ पृष्ठदेशे मा०, २०, ज० । ९ कुञ्जकसं-भा०, द०, ज० । १० हुंडकसं-६० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy