________________
Shri Mahavir Jain Aradhana Kendra
२६८
१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तौ
एता मोहनीयस्य कर्मणः उत्तरप्रकृतयोऽष्टाविंशतिर्भवन्ति ।
अथेदानीमायुः कर्मोत्तरप्रकृतीराह
नारकतैर्यग्योनमानुषदेवानि । १० ।
9
ary rari तिर्यग्योनिषु भवं तैर्यग्योनं मानुषेषु मनुष्येषु वा भवं मानुषं देवेषु ५ भवं दैवम् । नारकञ्च तैर्यग्योनच मानुषञ्च देवञ्च नारकर्तर्यग्योनमानुषदैवानि । यदुदयात् तीव्रशीतोष्णदुःखेषु नरकेषु जीवः दीर्घकालं जीवति तत् नारकमायुः । यन्निमित्तं तिर्यग्योनिषु जीवति जीवः तत् तैर्यग्योनम् । यत्प्रत्ययात् मनुष्येषु जीवति जीवः तत् मानुषमायुः । यद्धेतुकं देवेषु दीर्घकालं जीवति जीवस्तद्दैवमायुः । एवमायुः प्रकृतेश्चतस्र उत्तरप्रकृतयो भवति । अथेदानीं नामकर्म प्रकृतेरुत्तरप्रकृतीराह
'गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धन सङ्घातसंस्थान संहनन स्पर्श
[ ८/१०-११
रसगन्धवर्णानुपूर्व्यागुरुलधूपघातपरघातातपोद्योतोच्छ्वासविहा
योगतयः प्रत्येकशरीरससुभग सुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तितराणि तीर्थरत्वञ्च ॥ ११ ॥
For Private And Personal Use Only
गतिश्च जातिश्च शरीरश्न अङ्गोपाङ्गश्च निर्माणश्च बन्धनञ्च सङ्घातश्च संस्थानच १५ संहननच स्पर्शश्च रसश्च गन्धश्च वर्णश्च आनुपूर्व्यश्व अगुरुलघु व उपघातश्च परघातश्च आतपश्च उद्योतश्च उच्छ्वासश्च विहायोगतिश्च ताः गतिजातिशरीराङ्गोपाङ्गनिर्माण - न्धनसङ्घातसंस्थानसंहननस्पर्शर सगन्धवर्णानुपूर्व्यागुरुलधूपघात परघातातपो द्योतोच्छ्वासविहायोगतः । एता एकविंशतिप्रकृतयः । तथा प्रत्येकशरीरच त्रसश्च सुभगश्च सुस्वरश्व शुभश्व सूक्ष्मश्च पर्याप्तिश्च स्थिरश्च आदेयश्च यशः कीर्तिश्च येषु दशसु नामसु तानि प्रत्येकशरीरत्रससुभ२० सुस्वरशुभसूक्ष्मपर्याप्तिस्थिरा देययशः कीर्तीनि तानि च तानि सेतराणि इतरनामसहितानि तानि प्रत्येकशरीर ससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशः कीर्ति सेतराणि विंशतिसङ्ख्यानि भवन्ति । कथम् ? प्रत्येकशरीरादितरत्साधारणशरीरं प्रसादितर: स्थावरः सुभगादितरः दुर्भगः । सुखरादितरः दुःस्वरः शुभादितरः अशुभः सूक्ष्मादितरो बादरः पर्याप्तेरितरा अपर्याप्तिः स्थिरादितर: अस्थिरः आदेयादितरः अनादेयः यशः कीर्ते रितरा अयशः कीर्तिः तीर्थकरस्य भावः २५ कर्म वा तीर्थकरत्वं एताः समुदिताः द्विचत्वारिंशन्नामकर्मण उत्तरप्रकृतयो भवन्ति । अन्तर्भेदेस्तु मिलित्वा त्रिनवतिप्रकृतयो भवन्ति । तथैवोच्यते - यदुदय ज्जीवो भवान्तरं गच्छति सा गतिः शरीरनिष्पत्तिः सा चतुःप्रकारा भवति नरकगतिः तिर्यग्गतिः मनुष्यगतिः देवगतिश्चेति ।
I
दाजीव नारकभावो नारकशरीरनिष्पत्तिको भवति तन्नरकगतिनाम । यदुद्याज्जीवस्तिर्यभावस्तत्तिर्यग्गतिनाम | यदुदयाज्जीवो मनुष्यभावस्तन्मनुष्यगतिनाम । यदुद्याज्जीवो देवभाव
१ नरके भवम् भ० ज० द० । २ नरकभावस्तन्नर- मा० द० ज० १