________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८९]
अष्टमोऽध्यायः
यानि स्त्रीपुंलिङ्गानि पूर्वाणीति चतुर्दश ।
शक्तानि तानि मिश्राणि षण्ढभावनिवेदने || " [
1
Terrarati षोडशप्रकारं कस्मात् ? एकशः एकैकं प्रति अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान सब्ज्वलनविकल्पा यतः कारणात् । के ते क्रोधमानमायालो भाश्चत्वारः । तद्यथाअनन्तानुबन्धिनः क्रोधमानमाया लोभाश्चत्वारः अप्रत्याख्यानावरणाः क्रोधमानमायालोभाश्च ५ त्वारः प्रत्याख्यानाबरणाः क्रोधमानमायालोभाश्चत्वारः सज्वलनाः क्रोधमानमायालोभाश्चत्वरः । अनन्तानुबन्धिनइति कोऽर्थ : ? अनन्तं मिथ्यादर्शनमुच्यते, अनन्तभव भ्रमणहेतुत्वात् । अनन्तं मिध्यात्वम् अनुबध्नन्ति सम्बन्धयन्ति इत्येवंशीला ये क्रोधमानमायालोभास्ते अनन्तानुबन्धिनः । अनन्तानुबन्धिषु कषायेषु सत्सु जीवः सम्यक्त्वं न प्रतिपद्यते तेन ते सम्यक्त्वघातकाः भवन्ति । येषामुदयात् स्तोकमपि देशव्रतं संयमासंयमनामकं जीवो धर्तुं न क्षमते ते १० अप्रत्याख्यानावरणाः क्रोधमानमायालोभास्तेषु विध्वस्तेषु श्रावकत्रतम् अर्थिकाणां च व्रतं जीवः प्राप्नोति तेन ते देशप्रत्याख्यानमावृण्वन्तः अप्रत्याख्यानावरणाः क्रोधमानमायालोमा उच्यन्ते । येषामुदयाज्जीवो महात्रतं पालयितुं न शक्नोति ते प्रत्याख्यानावरणाः क्रोधमानमायालोभा उच्यन्ते । तेषु विध्वस्तेषु जीवः संयमं सर्वविरतिनामकं प्राप्नोति षष्ठादिगुणस्थानान्यर्हति । सज्वलना इति कोऽर्थः ? संशब्द एकीभावे वर्तते । तेनायमर्थः - - संयमेन सह अवस्थानतया १५. एकीभूततया ज्वलन्ति नोकषायवत् यथाख्यातच्चारित्रं विध्वंसयन्ति ये ते सब्ज्वलनाः क्रोधमानमायालोभाः । अथवा येषु सत्स्वपि संयमो ज्वलति दीप्तिं प्राप्नोति प्रतिबन्धं न लभते ते संवलनाः क्रोधमानमायालोभा उद्यन्ते । एवमेते समुदिताः षोडशकषाया भवन्ति तेषां स्वभावप्रकटनार्थ दृष्टान्तगाथा एता:
""सिलपुढविभेदधूली जलराइसमाणवो हवे कोहो । णारयतिरियणरामरगईसु उप्पायओ कमसो || सिलअकिडवे नियमेएणणुहरतवो माणो । णारयतिरियणरामरगईसु उपायओ कमसो || बेलोरभयसिंगे गोमुत्तएवखोरुप्पि | सरिसी मायाणारयतिरियणरामरगईसु खिबदि जीवं || किमि यचकतणुमलहरिहराएण सरिसओ लोहो । णारयतिरियमाणुसदेवेसुप्पायओ कमसो ॥" [ गो० जी० गा० २८३-८६ ]
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
२६७
२०
१ शिला पृथिवीभेदधूलि जलराशिसमानको भवेत् क्रोधः । नारकतिर्यग्नरामरगतिषूत्पादकः क्रमशः || शैलास्थिकाष्ठवेत्रान् निजभेदेनानुहरन् मानः । नारकतिर्यग्नरा मरगविषूत्पादकः क्रमशः।। वेणूपमूलोरभ्रकशृङ्गेण गोमूत्रेण च क्षुरप्रेण । सदृशी माया नारकतिर्यग्नशमरगतिषु क्षिपति जीवम् ।। क्रिमिरागचक्रतनुमलहरिद्वारागेण सदृशो लोभः । नारकतिर्यग्मानुषदेवेषूत्पादकः क्रमशः ॥
२५